पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ अथाज्ञानवादेऽज्ञानविषयनिरूपणम् || - विद्याविषयः; अविद्याया विषयोऽपि सुवचः । तथाहि – चिन्मात्रमेवा- तस्याकल्पितत्वेनान्योन्याश्रयादिदोषाप्रसक्तेः, स्वप्रकाशत्वेन प्रसक्तप्रकाशे तस्मिन्नावरणकृत्यसंभवाच्च, नान्यत् ; 26 विषयत्वाश्रयत्वादिना, ईश'जीवादिद्रष्टृत्व म विद्यावृत्त्यादिनैवेति नानुप- पत्तिरिति भावः । विषयतासंबन्धेनाविद्या प्रपञ्चं प्रति निमित्तम्, न तूपादानम् ; येन ब्रह्मणः प्रपञ्चाधारत्वं न स्यात् । जीव एव वा प्रपञ्चाधारो न ब्रह्म, अतो जीवाविद्ययोरेव प्रपञ्चोपादानत्वम् | जीव- ब्रह्मणोर्वास्तवाभेदाद्ब्रह्मणो जगद्वेतुत्वश्रुतिः । जगत्कारणाविद्याविषय- त्वादिकमेव ब्रह्म 'लक्षणं यतो वेत्यादिश्रुत्यर्थः । अत एवाविद्यैव शुद्ध- ब्रह्माश्रिता जगदुपादानं; न तु ब्रह्म जीवो वेति पक्षे जगदुपादाना- विद्यावतत्त्वमेवोक्तश्रुत्यर्थ इत्यादि बोध्यम् || तर्कैरित्यादि --- अज्ञाने जीवनिष्ठता । इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायामज्ञानस्य जीवनिष्ठतोपपत्तिः ॥ -ग. 2 ब्रह्मणो - ग. 3 - [प्रथमः 1 ईशे- त्वेऽन्योन्याश्रयः, मनोवच्छिन्न-ग, अथाज्ञानवादेऽज्ञानविषयनिरूपणम्. अन्योन्याश्रयादीति । अज्ञानजन्यानां मध्ये यद्विषय- केनाज्ञानेन यज्जन्यते तस्यापि तद्विषयकेनाज्ञानेन जननेऽन्यो- न्याश्रयः, तद्विषयकेनैवाज्ञानेन तस्य जनने आत्माश्रयः, अज्ञाना- वच्छिन्न चिदादेरज्ञानविषयत्वे तत्प्रकाशानुपपत्त्यादिरिति भावः । आत्माश्रय, - - अज्ञानजन्यस्या ज्ञानाश्रय