३७ , अष्टादशस्मृतिः]
- औशनसस्मृतिः। *
नृपायां वैश्यतश्चार्यात्पुलिन्दश्चेति कीर्तितः । पशुवृत्तिर्भवेत्तस्य हन्याद्वा दुष्टसत्त्वकान् ॥१६॥ नृपायां शूद्रलंसर्गाज्जातः पुल्कस उच्यते । सुरावृत्ति समारुह्य मधुविक्रयकर्मणा ॥१७॥ कृतकानां सुराणां च विक्रेता पाचको भवेत् । पुल्कसाढेश्यकन्यायां जातो रजक उच्यते ॥१८॥ नृपायां शूद्रतश्चार्याज्जातो रञ्जक उच्यते । वैश्यायां रञ्जकाज्जातो नर्तको गायको भवेत् ॥१६॥ वैश्यायां शूद्रसंसर्गाज्जातो वैदेहकः स्मृतः । अजानां पाजनं कुर्यान्महिषीणां गवामपि ॥२०॥ दधिक्षीराज्यतक्राणां विक्रयाज्जीवनं भवेत । वैदेहकात्तु विप्रायां जाताश्चर्मोपजीविनः ॥२१॥ नृपायामेव तस्यैव सूचिकः पाचकः स्मृतः । वैश्यायां शूद्रतश्चौर्याज्जातश्चक्री च उच्यते ॥२२॥ तैलपिष्टकजीवी तु लवणं भावयन्पुनः। विधिना ब्राह्मणः प्राप्य नृपायां तु समन्त्रकम् ॥२३॥ जातः सुवर्ण इत्युक्तः सानुलोमद्विजः स्मृतः । अथ वर्णक्रियां कुर्वन्नित्यनैमित्तिकी क्रियाम् ॥२४॥ अश्वं रथं हस्तिनं वा वाहयेद्वै नृपाज्ञया । सैनापत्यं च भैषल्यं कुर्याज्जीवेत वृत्तिषु ॥२॥ नृपायां विप्रतश्चौर्यात्संजातो यो भिषक्स्मृतः । अभिषिक्तनृपस्याऽऽज्ञा प्रतिपान्य तु वैद्यकः ॥२६॥ आयुर्वेदमथाष्टाङ्गं तन्त्रोक्तं धर्ममाचरेत् । ज्योतिष गणितं वापि कायिकी वृत्तिमाचरेत् ॥२७॥ नृपायां विधिना विप्राज्जातो नृप · इति स्मृतः । नृपायां नृपसंसर्गात्प्रमादागूढजातकः ॥२८॥ सोऽपि क्षत्रिय एव स्यादभिषेके तु वर्जितः । अभिषेकं विना प्राप्य गोज इत्यभिधायकः ॥२६॥ सर्व तु राजवत्तस्य शस्यते पट्टबन्धनम् । पुन करणे राज्ञां नृपकानीन एव च ॥३०॥ नैश्यायां विधिना विधाज्जातो ह्यम्बष्ठ उच्यते । कृष्याजीवो भवेत्स्य तथैवाऽऽग्नेयनर्तकः ॥३१॥ ध्वजविश्रावका वाऽपि अम्बष्ठाः शस्त्रजीविनः । श्यायां विप्रतश्चौर्यात्कुम्भकारः प्रजायते ॥३२॥ कुलालवृत्या जीवेत नापिता वा भवन्त्युत । सूतके प्रेतके वाऽपि दीक्षाकालेऽथ वोपनम् ॥३३॥ नाभेरूचं तु वपनं तस्मान्नापित उच्यते । कायस्थ इति जीवेत्तु विचरेच्च इतस्ततः ॥३॥ कालाल्लौल्यं यमात्कौर्य स्थपतेरथ कृन्तनम् । आद्यक्षरोणि संगृह्य कोयस्थ इति निर्दिशेत् ॥३॥ शूद्रायां विधिना विप्राज्जातः पारशवो मतः । भद्रकाली समाश्रित्य जीवेयुः पूजकाः स्मृताः ॥३६॥ . शिवाद्यागमविद्याद्य स्तथा मर्दलवृत्तिभिः । तस्यां चै चौरसवृत्तो निषादो जात उच्यते ॥३७॥ वने दुष्टमृगान्हत्वा जीवनं मांसविक्रयम् । नृपाज्जातोऽथ गृह्यायां पैश्यायां विधिना सुतः ॥३८॥ नैश्यवृत्या तु जीवेत न क्षात्रं धर्ममाचरेत् । तस्यां तस्यैव चौर्येण मणिकारः प्रजायते ॥३९॥ मणीनां राजतां कुर्यान्मुक्तानां वेधनक्रियाम् । प्रवालानां च सूत्रत्वं शङ्खानां वलनक्रियाम् ॥४०॥ शूद्रायां विप्रसंसर्गाज्जात उग्र इति स्मृतः । नृपस्य दण्डधारः स्याद्दण्डं दण्डेषु संचरेत् ॥४१॥ तस्यां नै चौरसंवृत्त्या जातः शूलिक उच्यते । जातदुष्टान्समारोप्य शूलकर्मणि योजयेत् ॥४२॥ शूद्रायां वैश्यसंसर्गाद्विधिना सूचकः स्मृतः । सूचकाद्विप्रकन्यायां जातस्तक्षक उच्यते ॥४३॥ शिल्पकर्माणि चान्यानि प्रासादलक्षणं तथा । नृपायामेव तस्यैव जातो यो मत्स्यबन्धकः ॥४४॥ शूद्रायां जैश्यतश्चौर्यात्कटकार इति स्मृतः । वसिष्ठशापात्रेतायां केचित्पारशवास्तथा ॥४॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri