[अष्टादशस्मृतयः
- दक्षस्मृतिः
६२ (अथ सप्तमोऽध्यायः।) अतः परं प्रवक्ष्यामि योगस्य विधिमुत्तमम् । लोको वशीकृतो यैस्तु यरात्मा च वशीकृतः ॥१॥ इन्द्रियार्थास्तपस्तेषां योगं वक्ष्याम्यशेषतः ॥२॥ प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा। तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥३॥ नारण्यसेवनायोगो नानेकग्रन्थविननात् । व्रतैर्यस्त- पोभिर्वा न योगः कस्यचिद्भवेत् ॥१॥ न च पद्मासनायोगो व नासाग्रनिरीक्षणत् । न च शास्त्रा- तिरिक्तेन शौचेन भवति क्वचित् ॥३॥ न मौनमन्त्रबुहकैरनेकैः सुकृतैस्तथा । लोकयात्राभियुक्तस्य न योगः कस्यचिद्भवेत् ॥६॥अभियोगात्तथाऽभ्यासात्तस्मिन्नेव सुनिश्चयात् । पुनः पुनश्च निर्वेदाद्योगाः सिध्यन्ति नान्यथा ॥७॥ यश्वाऽत्ममिथुनो नित्यमात्मक्रीडस्तथैव च । आ-मानन्दश्चसततमात्मन्येव समाहितः। ॥अस्मिन्नेव सुतृप्तश्चसंतुष्टो नान्यमानसः। प्रात्मन्येव सुतप्तस्य योगोभवति नान्यथा ।।। स्वप्नेऽपि योऽभियुक्तश्च जाग्रच्चैव विशेषतः । ईदृक्चेष्टः स्मृतः श्रेष्ठो वरिष्ठो ब्रह्मवादिनाम् ॥१०॥ यस्त्वात्मव्यतिरेकेण द्वितीयं नैव पश्यति । ब्रह्मभूतः स विज्ञेयो दक्षपक्ष उदाहृतः ॥११॥ विषयासक्तचित्तो हि कश्चिद्योगं न विन्दति । यत्लेन विषयासङ्गं तस्माद्योगी विवर्जयेत् ॥१२॥ विषयेन्द्रियसंयोगं केचियोगं वदन्ति च । अधर्मो धर्मबुध्दा तु - गृहीतस्तैरपण्डितैः ॥१३॥ आत्मनो मनसश्चैव संयोगं च तथा परे । उत्तानमनसो ह्येते केवलं योगवञ्चिताः ॥१४॥ वृत्तिहीनं मनः कृत्वा क्षेत्रमं परमात्मनि । एकीकृत्य विमुच्येत योगोऽयं मुख्य उच्यते ॥१॥ कषायमोहविक्षेपलज्जाशङ्कादिचेतसः । व्यापारास्तु समाख्यातास्तीहीनं वशमानयेत् ॥१६॥ कुटुम्बः पञ्चमिामः षष्ठं तत्र महत्तमः । देवासुरमनुष्यैस्तु स जेतुं नैव शक्यते ॥१७॥ बलेन परराष्ट्राणि गृहणशूरस्तु नोच्यते । जितो येनेन्द्रियग्रामः स शूरः कथ्यते बुधौः - १८|| न स्थिरं क्षणमप्येकमुटकं च यथोर्मिभिः । वाताहतं तथा चित्तं तस्मात्तस्य न विश्वसेत् । १।। बहिसुखानि सर्वाणि कृत्वा चान्नमुखानि वै । मनसैवेन्द्रियग्राम मनश्वाऽऽत्मनि योजयेत् ॥२०॥ सर्वभावविनिमुक्त क्षेत्रमं ब्रह्मणि न्यसेत् । एतज्ज्ञानं च ध्यानं च शेषोऽन्यो ग्रन्थविस्तरः ॥२१॥ चतुर्णा संनिकर्षण फलं यत्तदशाश्वतम् । द्वयोस्तु संनिकर्षण शाश्वतं पदमव्ययम् ।।२२।। पन्नास्ति सर्वलोकस्य तदस्तीति विरुध्यते । कथ्यमानं तथाऽन्यस्य हृदये नावतिष्ठते ।।२३॥ स्वसंवेद्य हि तद्ब्रह्म कुमारी स्त्रोमुख यथा । अयोगी नैव जानाति जात्यन्धो हि यथा घटम् ॥२४॥ नित्याभ्यसनशिलस्य स्वसंवेद्य' हि तद्भवेत् । तत्सूक्ष्मत्वादनिर्देश्यं परं ब्रह्म सनातनम् ॥२५॥ बुधा ह्याभरणं भारं मलमालेपनं तथा । मन्यन्ते. स्त्री च मूर्खश्च तदेव बहु मन्यते ॥२६॥ सवोत्कटाः सुराः सर्वे विषयैश्च वशीकृताः । प्रमादिनि क्षुद्रसत्वे मनुष्ये चात्र का कथा ॥२७॥ तस्मात्यक्तकपायेण कर्तव्यं दण्डधारणम् । इतरस्तु न शक्नोति विषयैरमिभूयते ।।२८ इद श्रा CC.O- Jangamwadi Math Collection. Digitized by eGangotri