पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

APPENDIX ३०७ चास्तु | दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु | यच्छे- यस्तदस्तु -- इति । तत: वसुदत्तप्रपौत्री मित्रदत्तपौती देवदत्तदुहिता यज्ञदत्तप्रपौत्राय ब्रह्ममित्रपौत्राय विष्णुमित्रपुत्राय रुद्रमित्राय तुभ्यं प्रदत्ता । ' ' धर्मे चार्थे च कामे च नातिचरितव्या त्वयेयम्' इति । ततो वर: ' क इदं कस्मा अदात्' इत्यनेन कन्या- मभिमृशेत् । ततो दक्षिणां ' दक्षिणाः पान्तु । बहुदेयं चास्तु | प्रजापतिः प्रीयताम् । तिथिकरणमुहूर्तनक्षत्रग्रह लग्नसंपदस्तु इति । पुण्याहमिति त्रिः । ओं स्वस्तीति । उदपात्रं ततः कृत्वा अभिमृश्यानुमन्त्रयेत् । ' अनाधृष्टमस्यनाधृष्यम्' इति । ' यत् कक्षीवान् संबननम्', 'आ नः प्रजां जनयतु प्रजापतिः' इति कन्यामभिषिच्य ब्राह्मणान् वाचयेदिति । ८ संसृष्टम् ' इति विज्ञेयाः सौर्याः पञ्चाशतं त्वृचः । अध्येयास्ता विवाहेषु नायुग्भिर्वेदपारगैः ॥ 7 ततो गन्धमाल्यवासः सुवर्णगवादीनां प्रदानम् । ततः कन्यां सख्यो वाससि गृहीत्वा गृहं प्रवेशयन्ति । ततो जनपदधर्मा ग्राम- धर्माश्च स्त्रियो यत् कारयिष्यन्ति तत् कर्तव्यस् । ' ग्रामवचनं कुर्युः ' इति वचनात् ॥ ६ ॥ अथ चतुर्थीकर्म । विराते निवृत्ते द्वादशरात्रे संवत्सरे वा । महाव्याहृतिभिर्हुत्वा -- ' भूरग्नये च पृथिव्यै च महते च स्वाहा । भुवो वायवे चान्तरिक्षाय च महते च स्वाहा | स्वरा- दित्याय च दिवे च महते च स्वाहा । भूर्भुवः स्वश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा' - इति । स्थालीपाकस्य जुहोति । 20.a.