पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ आश्वलायनगृह्यसूत्रभाष्यम् अग्ने प्रायश्चित्तिरसि । त्वं देवानां प्रायश्चित्तिरसि । यास्याः पतिघ्नी तनूः । तामस्या अप जहि स्वाहा || वायो प्रायश्चित्तिरसि । त्वं देवानां प्रायश्चित्तरसि । यास्या अपुल्या तनूः । तामस्या अप जहि स्वाहा || सूर्य प्रायश्चित्तरसि । त्वं देवानां प्रायश्चित्तिरसि । यास्या अपशव्या तनूः । तामस्या अप जहि स्वाहा || इति । ' अर्यमणं नु देवम्' इति तिस्रः । ' प्रजापते न त्वदेतान्यन्यः' इति च सप्तमी । सौविष्टकृत्यष्टमी ।। ७ ।। ऋतौ त प्रथमे कार्य : प्राजापत्यो भवेच्चरुः । तु हुत्वैतस्याज्याहुतयः सप्तैतास्तदनन्तराः ॥ 'विष्णुर्योनि' 'नेजमेष' एका चैव प्रजापतेः । E अप नः शोशुचद् ' इति तस्यै मूर्धानमालभेत् || > • वधेन दस्युम्' इति षड्भिः, 'अग्निस्तुविश्रवस्तमम्' इति द्वाभ्यामग्निमुपतिष्ठेत । 'सूर्यो नो दिवस्पातु' इति पञ्चभिः सूर्योपस्थानम् । 'याः फलिनीर्या अफलाः' इत्येतां चैकामृचं जपेत् ॥ ८ ॥ 11 , अथ गर्भलम्भनम् । अध्याण्डामूलं पेषयित्वा ऋतुवेलायाम् 'उदीर्ष्वतः पतिवती' इति द्वाभ्यामन्तेस्वाहाकाराभ्यां नस्तो दक्षिणतो निषिञ्चेत् । 'गन्धर्वस्य विश्वावसोर्मुखमसि इत्युपस्थं प्रजनयिष्यमाणोऽभिमृशेत् । 'विष्णुर्योनिम्' इति द्वारं विदारयेत् । ' तां पूषञ्छिवतमामेरयस्व ' इत्युपयच्छेत् । समाप्तेऽर्थे जपेत् ‘ प्राणें तें रेतो दधाम्यसौ ' इति । अनुप्राण्यात् ।