APPENDIX ३१३ उपांश्वाज्यम् । अग्नये व्रतपतयेऽष्टाकपालं पुरोडाशं निर्वपेत् । विष्णवे शिपिविष्टायोपांश्वाज्यम् । अग्नये वैश्वानराय द्वादश- कपालं पुरोडाशं निर्वपेत् । दधिक्राव्ण उपांश्वाज्यम् । 1 अपमिदं न्ययनं समुद्रस्य निवेशनम् । अन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ॥ नमस्ते हरसे शोचिषे नमस्ते अस्त्वचिषे । अन्यांस्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भव || इति धाय्ये | 'अग्नी रक्षांसि सेधति', ' यत्ते पवित्रमचिषि इत्याग्नेयस्याज्यभागस्य याज्यानुवाक्या । 'यो धारया पावकया 'आ कलशेषु धावति पवित्रे परि षिच्यते ' इति सौम्यस्य ।। १६ ।। , 'आ } अथापरं हविषां याज्यानुवाक्या अनुक्रमिष्यामः, पर- तन्त्रत्वात् । ' अग्न आयूंषि पवसे ', ' अग्ने पवस्व स्वपाः ', विश्वदेवं सत्पतिम्', 'न प्रमिये सवितुर्दैव्यस्य तत् ', ' स नः पावक दीदिवः', 'अग्ने पावक रोचिषा', 'उत नः प्रिया प्रियासु' 'इमा जुह्वाना युष्मदा नमोभिः', 'अग्निः शुचिव्रततमः ', ' उदग्ने शुचयस्तव', 'वायुरग्रेगा यज्ञप्री: ', ' वायो शुक्रो अयामि ते ', ' त्वमग्ने व्रतपा असि ', ' यद्वो वयं प्रमिनाम व्रतानि ', ' किमित्ते विष्णो परि चक्ष्यं भूत्', 'प्र तत्ते अद्य शिपिविष्ट नाम', 'वैश्वानरो न ऊतये ', 'पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् ', ' दधिक्राव्णो अकारिषम् ', ' आ दधिक्राः शवसा पञ्च कृष्टी : ' इति । ' पवमानः सुवर्जन:' इत्येतेनानुवाकेन प्रत्यृचमध्वर्युः स्रुवेण पूर्वमाज्याहुती- र्जुहुयात् । एवमेव पत्नीसंयाजेषु प्राग् गृहपतेः कूष्माण्डेनानुवाकेन ।
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३५०
एतत् पृष्ठम् अपरिष्कृतम् अस्ति