पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ आश्वलायनगृह्यसूत्रभाष्यम् ' जुष्टो दमूना: ', ' अग्ने शर्धं महते सौभगाय ' इति संयाज्ये । अन्वाहार्यो दक्षिणा सुवर्णं वा । अन्ते ब्राह्मणतर्पणम् ।। १७ ।। 'अथान्त्येष्टिरित्येतेषां संस्थिते यजमाना आदनदेशे गत्वा कुर्वन्ति । सर्वेऽनुष्णीषिणः कर्तारोऽहतवाससः प्राचीनावीतिनो हविभिश्चरन्ति दक्षिणपूर्वस्यां दिशि विहारं कृत्वा । आहवनीये प्रधानमाध्वर्यवम् । तूष्णीं तन्त्रमन्यत्र संप्रैषात् । पत्नी संनह्यते । चरणाश्रवणे स्वधा कृत्वा ' सीद होत : ' इत्येव ब्रूयात् । सोमाय पितृमते षट्कपालं पुरोडाशं निर्वपेत् । पित्यया हौत्रम् । विशेषान् वक्ष्यामः । एका सामिधेनी । अनभिहिकृत्य । द्वावेव ( ? ) प्राचीनावीतिनः । स्वधाक्रियावेलान्ता संतिष्ठते । पात्नयोगे विशेषान् वक्ष्यामः । हिरण्यशकलैः छिद्राण्यस्य प्रच्छाद्य दक्षिणे हस्ते प्रस्तरं मुखे पुरोडाशम् । अनुस्तरण्यसंभवे गार्हपत्ये क्षीर- मधिश्रपयित्वा संतानं संगृह्य शिरो मुखं प्रच्छादयेद् वपावत् सर्वं संचित्य तिलैरवकीर्यं ॥ १८ ॥ अस्थिनाशे पलाशवृन्तानां त्रीणि षष्टिशतान्याहृत्य पुरुषस्य प्रतिनिधि कुर्यात् । अशीत्यर्थं तु शिरसि ग्रीवायां दश योजयेत् । उरसि त्रिंशतं दद्याद् विंशतिं जठरे तथा ।। बाहुभ्यां तु शतं दद्यादङ्गुलीभिर्दशैव तु । द्वादशार्धं वृषणयोरष्टार्धं शिश्न एव तु ।। ऊरुभ्यां तु शतं दद्यात् त्रिशतं जानुजङ्घयोः । पादाङ्गुलीषु दश वा एतत् प्रेतस्य लक्षणम् ।। ऊर्णासूत्रेण संवेष्टय यवपिष्टेन लेपयेत् ।