३१६ आश्वलायन गृह्यसूत्रभाष्यम् स्वस्त्यस्तु विसृजेदत्र सकृत् प्रणववर्जितम् ।। एकोद्दिष्टस्य पिण्डे तु अनुशब्दो न विद्यते । पितृशब्दं न कुर्वीत कर्म चात्र न लोपयेत् || 'पित्रे पितामहाय प्रपितामहाय ' इति यथोक्तम् । न जीवपितामहप्रेतपिता दद्यात् । न जीवन्तमति दद्यात् । उभावे- कस्मिन् पितृभेदे । न जीवपितुरस्तीति ।। २१ ।। अथ सपिण्डीकरणम् । संवत्सरे पूर्णे त्रिपक्षे वा द्वादशाहे वा यदहव वृद्धिरापद्येत । चत्वार्युदपात्राणि । एकं मृतस्य त्रीणीतरेषाम् । एकं पातं त्रिषु पात्रेषु नियोजयेत् 'समानी व आकूति: ' इति । एवमेव प्रथमं पिण्डं त्रिषु पिण्डेषु नियोजयेत् मधुमतीभि: 'सं गच्छध्वम् ' इति द्वाभ्याम् । एवं चतुर्थोऽनुज्ञापितो भवति । एवमेवात ऊर्ध्वं त्रीन् पिण्डान् निपृणीयात् । न वात दैवं भोजयेत् । प्रागेव दैवेऽर्घ्यमन्नाद्यं च दत्वा गन्धमाल्यैः पात- मर्चयित्वा तृतीयेनापिधाय हुतशेषं पितृभ्यः पाणिषु दद्यात् । अथाप्युदाहरन्ति -- यः सपिण्डीकृतं प्रेतं पृथक् पिण्डे नियोजयेत् । स मूढो नरकं याति पितृहा चोपजायते ।। अन्नं पाणितले दत्तं पूर्वमश्नन्त्यबुद्धयः । पितरस्तेन तृप्यन्ति शेषं तु न लभन्ति ते ।। यच्च पाणितले दत्तं यच्चान्नमुपकल्पितम् । एकीभावेन भोक्तव्यं पृथग्भावो न विद्यते ॥ ' यो देवानामसि श्रेष्ठ उग्रस्तन्तिचरो वृषा । मृळा त्वमस्मभ्यं रुद्रैतदस्तु हुतं तव स्वाहा' इति ॥२२॥
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३५३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति