APPENDIX ३१७ सकृत् पूर्वमपः प्राश्य ततोऽश्नीयात् समाहितः । प्राणायानं प्रथमाहुतिर्मुखे । अपानायानं द्वितीया । तृतीया व्यानायान्नम् । उदानायान्नं चतुर्थी । समानायानं पञ्चमी । प्राणं तु त्रिपुटं ग्रासम् । अपानं मुद्रहस्तेन । व्यानं तु पूर्णहस्तेन । उदानं त्वना- मिकया । समानं शृङ्गहस्तेन यो भुङ्क्ते वाग्यतः शुचिः । आचम्य पादाङ्गुष्ठेऽनु दक्षिणे स्रावयेदपः || महानयं पुरुषो जातवेदा योऽङ्गुष्ठाग्रे प्रतिष्ठितः । तमद्भिः परिषिञ्चामि भूयो ऽस्मान् नयस्व मामृतस्य योनिम् ॥ इति । वक्ष्यमाणेन मन्त्रेण हृदयं चैव संस्पृशेत् । 'विश्वोऽसि वैश्वानर विश्वधाम विश्वं त्वया हूयते जातवेदः । विशन्तु त्वामाहुतयः सर्वा एता मयि विशामो यत्र विश्वामृतोऽसि || I इति । प्राणममृते जुहोमि ममाविश सं तं प्रसहाय प्राणाय स्वाहा । अक्षिणी नासिके कर्णौ मूर्धानं चैव संस्पृशेत् । यस्तु विद्वान् जुहोत्येवमात्मासौ वै समाहितः || प्रदीप्तेन यथा हुतमेवं तस्य हुतं भवेत् । यस्त्वविद्वान् जुहोत्येवमात्मासौ वै समाहितः ।। यथा हि भस्मनि हुतमेवं तस्य हुतं भवेत् । तद्यथेषीकायास्तूलं प्रोतमग्नौ प्रदूयते । एवं हि सर्वपाप्मानं प्रयन्त्यात्मयाजिनः ॥
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३५४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति