३१८ आश्वलायनगृह्यसूत्रभाष्यम् इति । तदेतदृचाभ्युक्तम् --- ' मोघमन्त्रं विन्दते अप्रचेताः ' इति ।। २३ ।। प्रादेशमात्रां समिधं मूलमग्रं च लक्षयेत् । विपरीतमुखा नित्यं हुता वज्रमुखी भवेत् ।। क्षीणायुवित्तहीनस्तु सद्यो रोगी प्रजायते । इध्मं त्वत्र प्रवक्ष्यामि अरत्निमात्रप्रमाणतः ।। समच्छेदा च सुशिखा दश पञ्च च संमिताः । अमूलान् दर्भानादाय इध्मबद्धकुशेन तु ।। होमकाले तथा कृत्वा सव्ये पाणी सुवेष्टितम् । मूले मध्ये तथा चाग्रे इध्मं त्रिरभिघारयेत् । अभिधार्यं ततस्तूष्णीं देवतत्त्वानि चिन्तयेत् ॥ २४ ॥ एकस्तु प्लाव्यते त्वप्सु एकः पत्न्यै प्रदीयते । एकस्तु हूयतेऽथाग्नौ वयः पिण्डाः प्रकीर्तिताः ॥ य एष प्लाव्यते त्वप्सु तेन प्रीणयते वृकम् । एक: प्रीणयते देवान् पितॄंश्चैव महायशाः ।। यमेकं मध्यमं पिण्डं पत्नी प्राश्नाति वाग्यता । भोक्तव्यः पुत्रकामायां सुप्रीताः स्युः पितामहाः || यमेकमपरं पिण्डमग्नौ जुह्वति वै द्विजाः । सुप्रीताः प्रपितामहास्तेषां वर्धन्ति च प्रजाः ।। सभ्यावसथ्यशालाग्नौ दाहयेत् तान् नियोजयेत् । चितादेशात् प्रागुदीच्यां दिशि पञ्चदश क्रमान् ॥ अतिक्रम्योत्सृजन्तीति विद्वांसो दाहकर्मणि । गच्छध्वमग्रतः पूर्वमेष वः सुहृदां सुहृत् । दिवः परं परं व्योम नयध्वं स्थानमुत्तमम् ॥
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३५५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति