APPENDIX ३१६ इति । पत्नीपरिचरणं चावसथ्यधारणात् । तां चोपरतामाहार्येण निर्मन्थ्येन वा दग्ध्वा संस्कुर्वन्ति । यथोक्तं स्थानमावसथ्यस्य । त एतेऽप्रयाजा अननुयाजा अनिडा अनिगदा असामिधेनीकाश्च पाकयज्ञा भवन्ति । जान्वाच्य स्वाहाकारेण जुहुयात् । तिष्ठन् वषट्कारेण । आसीनः पितृभ्यो दद्यात् । तिष्ठन् देवेभ्य इति ।। २५ ।। अथ वृषोत्सर्गः । कार्तिक्यां पौर्णमास्यां वैशाख्यां वा जीववत्सायाः पयस्विन्याः पुत्रं द्विहायनमेकहायनं वा नीलं बभ्रु कपिलं पिङ्गलं वा । लोहितो यस्तु वर्णेन मुखे पुच्छे तु पाण्डुरः । श्वेतः खुरविषाणाभ्यां स वै नीलो वृषः स्मृतः ॥ इति । आपोहिष्ठीयाभिर्वांमदैव्येन च वत्सतरीभिः सहाभिषिच्य गोष्ठे चतुष्पथे वाग्निमुपसमाधाय रौद्रं स्थालीपाकं श्रयेत् । सौम्यं पायसमैन्द्रं यावकम् । मार्जनान्तं कृत्वा त्रिः प्रदक्षिणमग्नि पर्याणीय रुद्राङ्कं कृत्वा दक्षिणे त्रिशूलं वामे चक्रं प्राञ्चमुत्सृजेत् । व्रजन्तमनुमन्त्रयेत्-- इति । I एतं युवानं पति वो ददामि येन क्रीडन्तीश्चरथ प्रियेण । मा वः स्थात्र जनुषा सुभगा रायस्पोषेण समिषा मदेम || शान्ता पृथिवी शिवमन्तरिक्षं द्यौर्नो देव्यभयं कृणोतु । 7
पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३५६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति