पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

३ ०
भगवदज्जुकम्
वैद्यः - 1 सुणादु होदी ॥
वातिकाः पैत्तिकाश्चैव श्लैष्मिकाश्च महाविषाः 1
त्रीणि सपाँ भवन्येते चतुर्थो नाधिगम्यते ॥।
गणि - अयमपशब्दः ॥ "त्रय* सपीँ इति वक्तव्यम् । 'त्रीणि'
नपुंसकं भवति ।
वैद्यः - 2 अविहा वैयाकरणसप्पेण खाइदा भवे ।
गाणि -- कियन्तो विषवेगाः ?
वैद्य -- 8 विसवेगा सद ॥
गणि -- न न, सप्त ते विषवेगा8 । तद्यथा ।
रोमाञ्चो मुखशोषश्च वैवण्र्यं चैव वेपथुः ।
हिक्का श्वासश्च संमोहः सप्तैता विषविक्रिया * ॥।
सप्तविषवेगानतिक्रान्तोe-श्विभ्यामपि न शक्यते चिकित्सितुम् ।
अथवा वक्तव्यमस्ति चेद् ब्रूहि ।
वैद्यः – 4 णहु अम्माणं विसओो, णमो भअवदीए, गच्छामि दाव अहं ।
→→ ( निष्क्रान्तः )
(प्रविश्य ) .
यम -- एष भो8,
गर्भस्रवैश्च पिटकज्वरकर्णरोगै-
र्गुल्माधिशूलहृदयाक्षिशिरोरुगाद्यैः ।
अस्मिन्क्षणे बहुविधैः खलु विद्रवेश्च
क्षिप्रं कृता यमपुराभिमुखाश्च जीवा ॥।
1 श्रुणोतु भवती ॥
2 अविहा वैयाकरणसर्पण खादिता भवेत् ।
3 विषवेगाः शतम् ।
4 नखल्वस्माकं विषयः । नमो भगवत्यै । गच्छामि तावदहम् ।