पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९२ बृहत्स्तोत्ररत्नाकरे मस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् | वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ ३ ॥ शुचौ देशे समासीनो यथावत्कल्पितासनः । जितेंद्वियो जितप्राणश्चिंतयेच्छिव- मव्ययम् ॥ ४ ॥ हृत्पुंडरीकांतरसन्निविष्टं स्वतेजसा व्या- तनभोवकाशम् । अतींद्रियं सूक्ष्ममनंतमाद्यं ध्यायेत्परा- नंदमयं महेशम् ॥ ५ ॥ ध्यानावधूताखिलकर्मबंधश्चिरं चिदानंदनिमनचेताः । षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥ ६ ॥ मां पातु देवोऽखिलदेवता- त्मा संसारकूपे पतितं गभीरे | तन्नाम दिव्यं वरमंत्रमूलं धुनोतु मे सर्वमधं हृदिस्थम् ॥ ७ ॥ सर्वत्र मां रक्षतु विश्वमूर्तिज्योतिर्मयानंदघनश्चिदात्मा । अणोरणीयानुरु- शक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥ ८ ॥ यो भूस्वरू- पेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः । योऽपां स्वरूपेण नृणां करोति संजीवनं सोऽवतु मां जलेभ्यः ॥ ९॥ कल्पावसाने भुवनानि दुग्ध्वा सर्वाणि यो नृत्यति भूरि- लीलः । स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखि- लाच्च तापात् ॥ १० ॥ प्रदीप्तविद्युत्कनकावभासो विद्या- वराभीतिकुठारपाणिः । चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितं रक्षतु मामजस्रम् ॥ ११ ॥ कुठारवेदांकुशपाशशू- लकपालढक्काक्षगुणान्दधानः । चतुर्मुखो नीलरुचित्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥ १२ ॥ कुंदेंदुशंखस्फटि- कावभासो वेदाक्षमालावरदाभयांकः | व्यक्षश्चतुर्वक्र