पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि । ९३ उरुप्रभावः सद्योधिजातोऽवतु मां प्रतीच्याम् ॥ १३ ॥ वराक्षमालाभयटकहस्तः सरोजकिंजल्कसमानवर्णः । त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥ १४॥ वेदाभयेष्टांकुशपाशटंककपालढक्काक्षकशूलपाणिः | सितद्युतिः पंचमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाशः ॥ १५ ॥ मूर्धानमव्यान्मम चंद्रमौलिर्भालं ममाव्यादथ भालनेत्रः | नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥ १६॥ पायाच्छुती मे श्रुतिगीतकीर्तिः कपो लमव्यात्सततं कपाली । वक्रं सदा रक्षतु पंचवको जिह्वां सदा रक्षतु वेदजिह्वः ॥ १७ ॥ कंठं गिरीशोऽवतु नील- कंठः पाणिद्वयं पातु पिनाकपाणिः | दोर्मूलमव्यान्मम धर्मबाहुर्वक्षस्थलं दक्षमखांतकोऽव्यात् ॥ १८ ॥ ममोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्मदनांतकारी । हेरंबता- तो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ॥ १९॥ ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽ- व्यात् । जंघायुगं पुंगवकेतुरव्यात्पादौ ममाव्यात्सुरवंद्य- पादः ॥२०॥ महेश्वरः पातु दिनादियामे मां मध्ययामे- ऽवतु वामदेवः । त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु दिनांत्ययामे ॥ २१ ॥ पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां निशीथे। गौरीपतिः पातु निशाव- साने मृत्युंजयो रक्षतु सर्वकालम् ॥२२॥ अंतःस्थितं रक्षतु शंकरो मां स्थाणुः सदा पातु बहिःस्थितं माम् । तदंतरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समंतात् ॥ २३ ॥ ति-