पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि । वत्स शैवं कवचमुत्तमम् । धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥३५॥ सूत उवाच । इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे । ददौ शंखं महारावं खड्गं चारिनि- पूदनम् ॥ ३६ || पुनश्च भस्म संमंत्र्य तदंगं परितोऽस्पृ- शत् । गजानां पट्सहस्रस्य द्विगुणस्य बलं ददौ ॥ ३७ ॥ भस्मप्रभावात्संप्राप्तबलैश्वर्यष्टृतिस्मृतिः । स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥ ३८ ॥ तमाह प्रांजलिं भूयः स योगी नृपनंदनम् । एष खड्गो मया दत्तस्तपोमंत्रानु- भावितः ॥३९॥ शितधारमिमं खड्नं यस्मै दर्शयसे स्फु- टम् । स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥ ४०॥ अस्य शंखस्य निदं ये शृण्वंति तवाहिताः । ते मूर्छिताः पतिष्यंति न्यस्तशस्त्रा विचेतनाः ॥४१॥ खड़शंखाविमौ दिव्यौ परसैन्यविनाशिनौ । आत्मसैन्यस्य पक्षाणां शौर्य- तेजोविवर्धनौ ॥ ४२ ॥ एतयोश्च प्रभावेण शैवेन कवचेन च । द्विषट्सहस्रनागानां बलेन महतापि च ॥४३॥ भस्मधा- रणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि । प्राप्य सिंहासनं पि- त्र्यं गोप्तासि पृथिवीमिमाम् ॥ ४४ ॥ इति भद्रायुषं सम्यगनुशास्य समातृकम् | ताभ्यां संपूजितः सोऽथ योगी स्वैरगतिर्ययौ ॥ ४५ ॥ इति श्रीस्कंदपुराणे ब्रह्मो- त्तरखंडे शिवकवचं समाप्तम् ॥ ३८. शिवमानसपूजा । श्रीगणेशाय नमः ॥ रतैः कल्पितमासनं हिमजलैः स्त्रानं