पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/११५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि । । वकाराय नमो नमः ॥ ५ ॥ यत्र यत्र स्थितो देवः सर्व- व्यापी महेश्वरः । यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥ ६ ॥ षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ | शिव- लोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥ इति श्रीरुद्र- यामले उमामहेश्वरसंवादे शिवषडक्षरस्तोत्रं संपूर्णम् ॥ ४२. शिवपंचाक्षरस्तोत्रम् | श्रीगणेशाय नमः ॥ नागेंद्रहाराय त्रिलोचनाय भस्मां- गरागाय महेश्वराय । नित्याय शुद्धाय दिगंबराय तस्मै नकाराय नमः शिवाय ॥ १ ॥ मंदाकिनीसलिल - चंदनचर्चिताय नंदीश्वरप्रमथनाथमहेश्वराय । मंदारपुष्प- बहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय ॥ २ ॥ शिवाय गौरीवदनाजवृंदसूर्याय दक्षाध्वरनाशकाय | श्रीनीलकंठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय ॥ ३ ॥ वसिष्ठकुंभोद्भवगौतमार्यमुनींद्र देवार्चितशेखराय । चंद्रार्कवैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय ॥ ४ ॥ यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय | दिव्याय देवाय दिगंबराय तस्मै यकाराय नमः शिवाय ॥ ५ ॥ पंचाक्षरमिदं पुण्यं यः पठेच्छिवसंनिधौ | शिव- लोकमवामोति शिवेन सह मोदते ॥ ६ ॥ इति श्रीमच्छं- कराचार्यविरचितं शिवपंचाक्षरस्तोत्रं संपूर्णम् ॥