पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे ४३. उपमन्युकृतशिवस्तोत्रम् | श्रीगणेशाय नमः ॥ जय शंकर पार्वतीपते मृड शंभो शशिखंडमंडन । मदनांतक भक्तवत्सल प्रियकैलास दयासुधांबुधे ॥ १ ॥ सदुपायकथास्वपंडितो हृदये दुःख- शरेण खंडितः । शशिखंड शिखंडमंडनं शरणं यामि श रण्यमीश्वरम् ॥२॥ महतः परितः प्रसर्पतम्तमसो दर्शन- भेदिनो भिदे । दिननाथ इव स्वतेजसा हृदयव्योनि मनागुदेहि नः ॥ ३ ॥ न वयं तव चर्मचक्षुषा पदवीम- प्युपवीक्षितुं क्षमाः | कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु नः ॥ ४ ॥ त्वदनुस्मृतिरेव पावनी स्तुति - युक्ता न हि वक्तुमीश सा । मधुरं हि पयः स्वभावतो ननु कीदृक्सितशर्करान्वितम् ॥ ५ ॥ सविषोऽप्यमृतायते भवाञ्छवमुंडाभरणोऽपि पावनः । भव एव भवांतकः सतां समदृष्टिर्विषमेक्षणोऽपि सन् ॥ ६ ॥ अपि शूलधरो निरामयो दृढवैराग्यरतोऽपि रागवान् । अपि भैक्ष्यचरो महेश्वरश्वरितं चित्रमिदं हि ते प्रभो ॥ ७ ॥ वितरत्यभि- वांछितं दृशा परिदृष्टः किल कल्पपादपः | हृदये स्मृत एव धीमते नमतेऽभीष्टफलप्रदो भवान् ॥ ८ ॥ सहसैव भुजंगपाशवान्विनिगृह्णाति न यावदंतकः | अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥ ९ ॥ सविषै- रिव भीमपन्नगै विषयैरेभिरलं परिक्षतम् । अमृतैरिव सं- १०८