पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | १०९ अमेण मामभिषिंचाशु दयावलोकनैः ॥ १० ॥ मुनयो बहवोऽद्य धन्यतां गमिता स्वाभिमतार्थदर्शिनः । करु- णाकर येन तेन मामवसनं ननु पश्य चक्षुषा ॥ ११ ॥ प्रण- मास्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् । विर हीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥ १२॥ बहवो भवताऽनुकंपिताः किमितीशान न मानुकंपसे । दधता किमु मंदराचलं परमाणुः कमठेन दुर्धरः ॥ १३ ॥ अशुचिं यदि मानुमन्यसे किमिदं मूर्ध्नि कपालदाम ते । उत शाठ्यमसाधुसंगिनं विषलक्ष्मासि न किं द्विजिह्वटक ॥ १४ ॥ क्व दृशं विदधामि किं करोम्यनुतिष्ठामि कथं भयाकुलः | व नु तिष्ठसि रक्ष रक्ष मामयि शंभो शर- णागतोऽस्मि ते ॥ १५ ॥ विलुठाम्यवनौ किमाकुलः कि- मुरो हन्मि शिरश्छिनझि वा । किसु रोदिमि रारटीमि किं कृपणं मां न यदीक्षसे प्रभो ॥ १६ ॥ शिव सर्वग शर्व शर्मदं प्रणतो देव दयां कुरुष्व मे । नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोऽस्तु ते ॥ १७ ॥ शरणं तरु- णेंदुशेखरः शरणं मे गिरिराजकन्यका। शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ १८ ॥ उपमन्युकृतं स्तवोत्तमं जपतः शंभुसमीपवर्तिनः । अभिवांछितभा- ग्यसंपदः परमायुः प्रददाति शंकरः ॥ १९ ॥ उपमन्युकृतं स्तवोत्तमं प्रजपेद्यस्तु शिवस्य संनिधौ | शिवलोकमवाप्य