पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे गणेशस्तोत्राणि | १. गणेशन्यासः | श्रीगणेशाय नमः ॥ आचम्य प्राणायामं कृत्वा | दक्षिण- हस्ते वक्रतुंडाय नमः । वामहस्ते शूर्पकर्णाय नमः । ओष्ठे विघ्नेशाय नमः । अधरोष्ठे चिंतामणये नमः । संपुढे गजा- ननाय नमः | दक्षिणपादे लंबोदराय नमः | वामपादे एकदंताय नमः । शिरसि एकदंताय नमः । चिबुके ब्रह्म- णस्पतये नमः । दक्षिणनासिकायां विनायकाय नमः | वामनासिकायां ज्येष्ठराजाय नमः । दक्षिणनेत्रे विकटाय नमः । वामनेत्रे कपिलाय नमः | दक्षिणकर्णे धरणी- धराय नमः । वामकर्णे आशापूरकाय नमः । नाभौ महो- दराय नमः | हृदये धूम्रकेतवे नमः । ललाटे मयूरेशाय नमः । दक्षिणबाहौ स्वानंदवासकारकाय नमः । वाम- बाहौ सच्चित्सुखधाम्ने नमः ॥ इति गणेशन्यासः ॥ २. गणेशकवचम् । श्रीगणेशाय नमः ॥ गौर्युवाच । एषोऽतिचपलो दैत्यान्बा- ल्येऽपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिस- त्तम ॥ १ ॥ दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः । अतोऽस्य कंठे किंचित्वं रक्षार्थ बहुमर्हसि ॥ २ ॥ मुनि- रुवाच | ध्यायेसिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायां तु मयूरवाहनममुं पड्बाहुकं सिद्धिदम् । द्वापारे