पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि । अमर्षिबलहर्षितक्षुभितवृत्तनेत्रोज्ज्वलज्ज्वलज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७ ॥ सहस्रनयनो गुहः सह- सहस्ररश्मिर्विधुर्बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः। भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थितां भवान् सुर- तरुभृशं शिव शिवां शिवावल्लभ ॥ ८ ॥ तव प्रियतमा- दतिप्रियतमं सदैवांतरं पयस्युपहितं भृतं स्वयमिव श्रियो वल्लभम् । विबुध्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठँति हि लुठंति ते शठहृदः शुचा शुंठिताः ॥ ९ ॥ निवास- निलयाचिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोस्थनंतर्धियाम् । तथापि भवतः पदं शिवशिवे- त्यदो जल्पतामकिंचन न किंचन वृजिनमस्ति भस्मीभ चेत् ॥ १० ॥ त्वमेव किल कामधुक् सकलकाममापूरयन् सदा त्रिनयनो भवान्वहति चार्चिनेत्रोद्भवम् । विषं विषधरान्दधत्पिबसि तेन चानंदवान्विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥ ११ ॥ नमः शिवशिवाशिवाशि- वशिवार्थ कृंताशिवं नमो हरहराहराहरहरांतरीं मे दृशम् । नमो भवभवाभवप्रभवभूतये मे भवान्नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ १२ ॥ सतां श्रवणपद्धति सरतु सन्नतोक्तत्यसौ शिवस्य करुणांकुराप्रतिकृतात्सदा सोचिता । इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवं लिकुचिसूरिसूनुः सुधीः ॥ १३ ॥