पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे इति श्रीमल्लिकुचिसूरिसूनुनारायणपंडिताचार्यविरचिता शिवस्तुतिः संपूर्णा ॥ ४८. पशुपत्यष्टकम् । O श्रीगणेशाय नमः ॥ पशुपतींदुपतिं धरणीपतिं भुजगलो- कपतिं च सतीपतिम् । प्रणतभक्त जनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥ १ ॥ न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् । अवति कोपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥ २ ॥ मुरज- डिंडिमवाद्यविलक्षणं मधुरपंचमनादविशारदम् । प्रमथ- भूतगणैरपि सेवितं भजत रे मनुजा० ॥ ३ ॥ शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् । अभयदं करुणावरुणालयं भजत रे मनुजा० ॥ ४ ॥ नरशिरोर- चितं मणिकुंडलं भुजगहारमुदं वृषभध्वजम् । चितिर जोधवलीकृतविग्रहं भजत रे म० ॥ ५ ॥ मखविनाश- करं शशिशेखरं सततमध्वरभाजिफलप्रदम् । प्रलयदग्ध- सुरासुरमानवं भजत रे म० ॥ ६ ॥ मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम् | जगदुदीक्ष्य समी- पभयाकुलं भजत रे म० ॥ ७ ॥ हरिविरंचिसुराधिपपू- जितं यमजनेशधनेशनमस्कृतम् | त्रिनयनं भुवनत्रित- याधिपं भजत रे म० ॥ ८ ॥ पशुपतेरिदमष्टकमद्भुतं विर चितं पृथिवीपतिसूरिणा । पठति संशृणुते मनुजः सदा BING