पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | १२१ वाकांत शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ ९ ॥ शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् । काशीपते करुणया जगदेतदे- कस्त्वं हंसि पासि विदधासि महेश्वरोऽसि ॥ १० ॥ त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ । त्वय्येव गच्छति लयं जगदेतदीश लिंगात्मकं हर चराचरविश्वरूपिन् ॥ ११ ॥ इति श्रीमच्छंकराचार्य- विरचितं वेदसारशिवस्तोत्रं संपूर्णम् ॥ ५१. विश्वनाथाष्टकम् । श्रीगणेशाय नमः ॥ गंगातरंगरमणीयजटाकलापं गौरीनि- रंतरविभूषितवामभागम् । नारायणप्रियमनंगमदापहारं वाराणसीपुरपतिं भज विश्वनाथम् ॥ १ ॥ वाचामगोचर- मनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम् । वा- मेन विग्रहवरेण कलत्रवंतं वाराणसी० ॥ २ ॥ भूताधिपं भुजगभूषणभूषितांगं व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् । पाशांकुशाभयवरप्रदशूलपाणि वाराणसी० ॥ ३ ॥ शी- तांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषित- पंचबाणम् | नागाधिपारचितभासुरकर्णपूरं वाराणसी० ॥ ४ ॥ पंचाननं दुरितमत्तमतंगजानां नागांतकं दनुजपुं- गवपन्नगानाम् । दावानलं मरणशोकजराटवीनां वारा- णसी० ॥ ५ ॥ तेजोमयं सगुण निर्गुणमद्वितीयमानंदकंद- ५ ka