पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | १२५ पंचपादपपुष्पगंधपदांबुजद्वयशोभितं भाललोचनजातपा- वकदग्धमन्मथविग्रहम् । भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं चंद्रशेखर ० ॥३॥ मत्तवारण मुख्यचर्मकृतोत्तरी- यमनोहरं पंकजासनपद्मलोचनपूजितांघिसरोरुहम् । देव- सिंधुतरंगसीकरसिक्तशुभ्रजटाधरं चंद्रशेखर० ॥ ४ ॥ यक्षराजसवं भगाक्षहरं भुजंगविभूषणं शैलराजसुतापरि- कृतचारुवामकलेवरम् । क्ष्वेडनीलगलं परश्वधधारिणं मृ गधारिणं चंद्रशेखर० ॥ ५ ॥ कुंडलीकृतकुंडलेश्वरकुंडलं वृषवाहनं नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् । अंध- कांधकमाश्रितामरपादपं शमनांतकं चंद्रशेखर ॥ ६ ॥ भेषजं भवरोगिणामखिलापदामपहारिणं दक्षयज्ञविना- शनं त्रिगुणात्मकं त्रिविलोचनम् । भुक्तिमुक्तिफलप्रदं सक- लाघसंघनिबर्हणं चंद्रशेखर० ॥७॥ भक्तवत्सलमर्चितं नि- धिमक्षयं हरिदंबरं सर्वभूतपतिं परात्परमप्रमेयमनुत्तम- म्। सोमवारिनभूहुताशनसोमपानिलखाकृतिं चंद्रशे- खर० ॥ ८ ॥ विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं संहरंतमपि प्रपंचमशेषलोकनिवासिनम् । क्रीडयंतमह- र्निशं गणनाथयूथसमन्वितं चंद्रशेखर ० ॥ ९ ॥ मृत्युभी- तमृकंडसूनुकृतस्तवं शिवसंनिधौ यत्रकुत्र च यः पठेन्न हि तस्य मृत्युभयं भवेत् । पूर्णमायुररोगितामखिलार्थसं- पदमादरं चंद्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥१०॥ इति श्रीचंद्रशेखराष्टकस्तोत्रं संपूर्णम् ॥