पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि | ५८. असितकृतशिवस्तोत्रम् | श्रीगणेशाय नमः ॥ असित उवाच । जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च | योगींद्राणां च योगीन्द्र गुरूर्णां गुरवे नमः ॥ १ ॥ मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखंडन । मृत्योरीश मृत्युबीज मृत्यंजय नमोस्तु ते ॥ २ ॥ काल- रूपं कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोस्तु ते ॥ ३॥ गुणातीत गुणाधार गुणबीज गुणात्मक | गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥ ४ ॥ ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर । ब्रह्मबी- जस्वरूपेण ब्रह्मबीज नमोस्तु ते ॥ ५ ॥ इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः | दीनवत्साश्रुनेत्रश्च पुलकांचितविग्रहः ॥ ६ ॥ असितेन कृतं स्तोत्रं भक्तियु- क्तश्च यः पठेत् । वर्षमेकं हविष्याशी शंकरस्य महात्मनः ॥ ७ ॥ स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् । भवे- नाढ्यो दुःखी च मूको भवति पंडितः ॥ ८ ॥ अभाय लभते भार्या सुशीलां च पतिव्रताम् । इह लोके सुख भुक्त्वा यात्यंते शिवसन्निधिम् ॥ ९ ॥ इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे । प्रचेतसा स्वपुत्रायासिताय दत्तमुत्त- मम् ॥ १० ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णज- न्मखंडे असितकृतशिवस्तोत्रं संपूर्णम् || १२९ ५९. हिमालयकृतशिवस्तात्रम् | श्रीगणेशाय नमः || हिमालय उवाच | त्वं ब्रह्मा सृष्टि-