पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे कं यत्त्वया पृष्टमेकचित्तो भवार्जुन | तदहं संप्रवक्ष्यामि आदिमध्यावसानकम् ॥ ८ ॥ अर्जुन उवाच | नारायण सुरश्रेष्ठ पृच्छामि त्वां महायशाः । कथमादित्यमुद्यंतमु- पतिष्ठेत्सनातनम् ॥९॥ श्रीभगवानुवाच | साधु पार्थ म हाबाहो बुद्धिमानसि पांडव | यन्मां पृच्छस्युपस्थानं त पाच विभावसोः ॥ १० ॥ सर्वमंगलमांगल्यं सर्वप.प प्रणाशनम् । सर्वरोगप्रशमनमायुर्वर्धनमुत्तमम् ॥ ११ ॥ अ- मित्रदमनं पार्थ संग्रामे जयवर्धनम् । वर्धनं धनपुत्राणामा- दित्यहृदयं शृणु ॥१२॥ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः । त्रिषु लोकेषु विख्यातं निःश्रेयसकरं परम् ॥१३॥ देवदेवं नमस्कृत्य प्रातरुत्थाय चार्जुन | विघ्नान्यनेकरूपाणि नयंति स्मरणादपि ॥ १४ ॥ तस्मात्सर्वप्रयत्लेन सूर्य- मावाहयेत्सदा । आदित्यहृदयं नित्यं जाग्यं तच्छृणु पांडव ॥१५॥ यज्जपान्मुच्यते जंतुर्द्वारियादाशु दुस्तरात् । लभते च महासिद्धिं कुष्ठव्याधिविनाशिनीम् ॥ १६ ॥ अस्मि नमंत्रे ऋषिश्छंदो देवता शक्तिरेव च । सर्वमेव महाबाहो कथयामि तवाग्रतः ॥१७॥ मया ते गोपितं न्यासं सर्व- शास्त्रप्रबोधितम् । अथ ते कथयिष्यामि उत्तमं मंत्रमेव च ॥ १८ ॥ ॐअस्य श्रीआदित्यहृदयस्तोत्रमंत्रस्य । श्रीकृष्ण ऋषिः । श्रीसूर्यात्मा त्रिभुवनेश्वरी देवता । अनुष्टुप् छंदः । हरितहयरथं दिवाकरं घृणिरिति बीजम् । ॐनमो भग-