पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यस्तोत्राणि । १४३ वते जितवैश्वानरजातवेदस इति शक्तिः । ॐ नमो भग वते आदित्याय नम इति कीलकम् । ॐअग्निगर्भदेवता इति मंत्रः । ॐनमो भगवते तुभ्यमादित्याय नमोनमः । श्रीसूर्यनारायणप्रीत्यर्थं जपे विनियोगः । अथ न्यासः । ॐहां अंगुष्ठाभ्यां नमः | ॐहीं तर्जनीभ्यां नमः । ॐ हूं मध्यमाभ्यां नमः । ॐ अनामिकाभ्यां नमः । ॐडौं कनिष्ठिकास्यां नमः । ॐहः करतलकरपृष्ठाभ्यां नमः । ॐहां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ हूं शिखायै वषट् | ॐ कवचाय हुम् । ॐहौं नेत्रत्रयाय वौषट् । ॐहः अस्त्राय फट् । ॐहाहहः इति दि- ग्बंधः । अथ ध्यानम् | भास्वद्रलाढ्यमौलिः स्फुरदधर- रुचा रंजितश्चारुकेशो भास्वान्यो दिव्यतेजाः करकमल- युतः स्वर्णवर्णः प्रभाभिः | विश्वाकाशावकाशग्रहपतिशि- खरे भाति यश्चोदयादौ सर्वानंदप्रदाता हरिहरनमितः पातु मां विश्वचक्षुः ॥ १ ॥ पूर्वमष्टदलं पद्मं प्रणवादिप्र- तिष्ठितम् । मायाबीजं दलाष्टाग्रे यंत्रमुद्धारयेदिति ॥ २ ॥ आदित्यं भास्करं भानुं रविं सूर्य दिवाकरम् । मार्तंडं त पनं चेति दलेष्वष्टसु योजयेत् ॥३॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा । अमोघा विद्युता चेति मध्ये श्रीः सर्वतोमुखी ॥४॥ सर्वज्ञः सर्वगश्चैव सर्वकारणदेव- ता। सर्वेशं सर्वहृदयं नमामि सर्वसाक्षिणम् ॥ ५ ॥ सर्वात्मा सर्वकर्ता च सृष्टिजीवनपालकः । हितः स्वर्गापव-