पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ बृहत्स्तोत्ररत्नाकरे र्गस्य भास्करेश नमोस्तु ते ॥ ६॥ इति प्रार्थना । नमो न मस्तेऽस्तु सदा विभावसो सर्वात्मने सप्तहयाय भानवे । अनंतशक्तिर्मणिभूषणेन ददस्व भुक्ति मम मुक्तिमव्ययाम् ॥ ७ ॥ अर्क तु मूर्ध्नि विन्यस्य ललाटे तु रविं न्यसेत् । वि न्यसेनेत्रयोः सूर्य कर्णयोश्च दिवाकरम् ॥ ८॥ नासिकायां न्यसेद्भानुं मुखे वै भास्करं न्यसेत् । पर्जन्यमोष्ठयोश्चैव तीक्ष्णं जिह्वांतरे न्यसेत् ॥ ९॥ सुवर्णरेतसं कंठे स्कंधयो- स्तिग्मतेजसम् । बाह्वोस्तु पूषणं चैव मित्रं वै पृष्ठतो न्य सेत् ॥ १० ॥ वरुणं दक्षिणे हस्ते त्वष्टारं वामतः करे । हस्तावुष्णकरः पातु हृदयं पातु भानुमान् ॥ ११ ॥ उदरे तु यमं विद्यादादित्यं नाभिमंडले । कठ्यां तु विन्यसेद्धंसं रुद्रमूर्वोस्तु विन्यसेत् ॥ १२ ॥ जान्वोस्तु गोपतिं न्यस्य सवितारं तु जंघयोः । पादयोश्च विवस्वंतं गुल्फयोश्च दिवाकरम् ॥१३॥ बाह्यतस्तु तमोध्वंसं भयमभ्यंतरे न्य सेत् । सर्वोगेषु सहस्रांशुं दिग्विदिक्षु भगं न्यसेत् ॥ १४ ॥ इति दिग्बंधः । एष आदित्य विन्यासो देवानामपि दुर्लभः । इमं भक्त्या न्यसेत्पार्थ स याति परमां गतिम् ॥ १५ ॥ कामक्रोधकृतात्पापान्मुच्यते नात्र संशयः । सर्वादपि भयं नैव संग्रामेषु पथिष्वपि ॥ १६ ॥ रिपुसंघट्टकालेषु तथा चोरसमागमे । त्रिसंध्यं जपतो न्यासं महापातकना शनम् ॥ १७ ॥ विस्फोटकसमुत्पन्नं तीव्रज्वरसमुद्भवम् । शिरोरोगं नेत्ररोगं सर्वव्याधिविनाशनम् ॥ १८ ॥ कुष्ठ-