पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे ग्यजुःसाम एव च । हरिदश्वस्तमोदारः सप्तसप्तिर्मरी- चिमान् ॥ ३१ ॥ अग्निगर्भोऽदितेः पुत्रः शंभुस्तिमिरना- शनः । पूषा विश्वंभरो मित्रः सुवर्णः सुप्रतापवान् ॥ ३२॥ आतपी मंडली भास्वांस्तपनः सर्वतापनः । कृतविश्वोम- हातेजाः सर्वरत्नमयोद्भवः ॥ ३३ ॥ अक्षरश्च क्षरश्चैव प्र- भाकरविभाकरौ । चंद्रश्चंद्रांगदः सौम्यो हव्यकव्यप्रदाय कः ॥ ३४ ॥ अंगारकी गदोऽगस्ती रक्तांगांवर्धनः । बुधो बुद्धासनो बुद्धिर्बुद्धात्मा बुद्धिवर्धनः ॥ ३५ ॥ बृह- द्भानुबृहद्भासो बृहद्धामा बृहस्पतिः । शुकुस्त्वं शुक्लरेता- स्त्वं शुक्लांग: शुक्लभूषणः ॥ ३६ ॥ शनिमान् शनिरूप- स्त्वं शनैर्गच्छसि सर्वदा । अनादिरादिरादित्यस्तेजोराशि- र्महातपाः ॥ ३६॥ अनादिरादिरूपस्त्वमादित्यो दिक्पति- र्यमः | भानुमान् भानुरूपस्त्वं स्वर्भानुर्भानुदीप्तिमान् ॥ ३८ ॥ धूमकेतुर्महाकेतुः सर्वकेतुरनुत्तमः | तिमिरावर- णः शंभुः स्रष्टा मार्तंड एव च ॥ ३९॥ नमः पूर्वाय गिरये पश्चिमाय नमो नमः | नमोत्तराय गिरये दक्षिणाय नमो नमः ॥४०॥ नमो नमः सहस्त्रांशो ह्यादित्याय नमो नमः । नमः पद्मप्रबोधाय नमस्ते द्वादशात्मने ॥ ४१ ॥ नमो वि- धप्रबोधाय नमो भ्राजिष्णुजिष्णवे । ज्योतिषे च नमस्तुभ्यं ज्ञानार्काय नमो नमः ॥४२॥ प्रदीप्ताय प्रगल्भाय युगांताय नमो नमः | नमस्ते होतृपतये पृथिवीपतये नमः ॥४३॥