पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ बृहत्स्तोत्ररखाकरे कल्पयेत् । इत्येते द्वादशादित्या: काश्यपेयाः प्रकीर्तिताः ॥ ५७ ॥ उग्ररूपा महात्मानस्तपते विश्वरूपिणः । धर्मा- र्थकाममोक्षाणां प्रस्फुटा हेतवो नृप ॥ ५८ ॥ सर्वपापहरं चैवमादित्यं संप्रपूजयेत् । एकधा दशधा चैव शतधा च सहस्रधा ॥ ५९॥ तपते विश्वरूपेण सृजंति संहरंति च । एष विष्णुः शिवश्चैव ब्रह्मा चैव प्रजापतिः ॥६०॥ महेंद्र- श्चैव कालश्च यमो वरुण एव च । नक्षत्रग्रहताराणाम- धिपो विश्वतापनः ॥६१॥ वायुरनिर्धनाध्यक्षो भूतकर्ता स्वयं प्रभुः । एष देवो हि देवानां सर्वमाप्यायते जगत् ॥ ६२ ॥ एष कर्ता हि भूतानां संहर्ता रक्षकस्तथा । एष लोकानुलोकाश्च सप्तद्वीपाश्च सागराः ॥६३॥ एष पाता- लसप्तस्था दैत्यदानवराक्षसाः । एष धाता विधाता च बीजं क्षेत्रं प्रजापतिः ॥ ६४ ॥ एक एव प्रजा नित्यं संव- र्धयति रश्मिभिः । एष यज्ञः स्वधा स्वाहा हीः श्रीश्च पुरुषोत्तमः ॥ ६५ ॥ एष भूतात्मको देवः सूक्ष्मोऽव्यक्तः सनातनः | ईश्वरः सर्वभूतानां परमेष्ठी प्रजापतिः ॥६६॥ कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः । जन्ममृ व्युजराव्याधिसंसारभयनाशनः ॥ ६७ ॥ दारिद्र्यव्यसन- ध्वंसी श्रीमान्देवो दिवाकरः । कीर्तनीयो विवस्वांश्च मा. र्तंडो भास्करो रविः ॥६८॥ लोकप्रकाशकः श्रीमांल्लोक- चक्षुर्महेश्वरः । लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्र- 13