पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे टाक्षेण विलोकयाशु || ८ || प्रवालमुक्ताफलहाटकाद्यैः सुसंस्कृतं ह्यंतरभावकेन । अनर्थ्यमयै सफलं कुरुष्व मया प्रदत्तं गणराज ढुंढे ॥ ९ ॥ सौगंध्ययुक्तं मधुपर्क- माद्यं संकल्पितं भावयुतं गृहाण | पुनस्तथाचम्य विना- यक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥ १० ॥ सुवासितं चंपकजातिका द्यैस्तैलं मया कल्पितमेव ढुंढे । गृहाण तेन प्रविमर्दयामि सर्वांगमेवं तव सेवनाय ॥ ११ ॥ ततः सुखोष्णेन जलेन चाहमनेकतीर्थाहृतकेन ढुंढिम् । चित्तेन शुद्धेन च स्त्रापयामि स्नानं मया दत्तमथो गृहाण ॥१२॥ ततः पयःस्त्रानमचिंत्यभाव गृहाण तोयस्य तथा गणेश | पुनर्दधिस्त्रानमनामय त्वं चित्तेन दत्तं च जलस्य चैन ॥ १३ ॥ ततो घृतस्त्रानमपारवंद्य सुतीर्थजं विघ्नहर प्र- सीद | गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥ १४ ॥ सुशर्करायुक्तमथो गृहाण स्त्रानं मया कल्पितमेव ढुंढे । ततो जलस्नानमघापहंतृ विनेश माया- भ्रमं वारयाशु ॥ १५ ॥ सुयक्षपंकस्थमथो गृहाण स्त्रानं परेशाधिपते ततश्च | कौमंडलीसंभवज्रं कुरुष्व विशुद्ध- मेवं परिकल्पितं तु ॥ १६ ॥ ततस्तु सूक्तैर्मनसा गणेशं संपूज्य दूर्वादिभिरल्पभावैः । अपारकैर्मडलभूतब्रह्मणस्प त्यस्तं ह्यभिषेचयामि ॥ १७ ॥ ततः सुवस्त्रेण तु प्रोंछनं त्वं गृहाण चित्तेन मया सुकल्पितम् । ततो विशुद्धेन ज लेन ढुंढे ह्याचांतमेवं कुरु विघ्नराज ॥१८॥ भनौ विशुद्धे 103