पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यस्तोत्राणि । १५३ मन्सर्वदर्शक ॥ १४ ॥ नमो भगवते सूर्य कुष्ठरोगान्वि- खंडय | आयुरारोग्यमैश्वर्यं देहि देव नमोस्तु ते ॥ १५ ॥ नमो भगवते तुभ्यमादित्याय नमो नमः । ॐअक्षय्य ते जसे नमः । ॐसूर्याय नमः । ॐ विश्वमूर्तये नमः । आदित्यं च शिवं विद्याच्छिवमादित्यरूपिणम् । उभयोरंतरं नास्ति आदित्यस्य शिवस्य च ॥ १६ ॥ एतदिच्छाम्यहं श्रोतुं पुरुषो वै दिवाकरः | उदये ब्रह्मणो रूपं मध्याह्ने तु महे- श्वरः ॥ १७ ॥ अस्तमाने स्वयं विष्णुस्त्रिमूर्तिश्च दिवाकरः । नमो भगवते तुभ्यं विष्णवे प्रभविष्णवे ॥ १८ ॥ ममे- दमर्थ्य प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते । श्रीसू- र्यनारायणाय सांगाय सपरिवाराय इदमर्थ्य समर्पयामि ॥ १९ ॥ हिमघ्नाय तमोघ्नाय रक्षोनाय च ते नमः । कृता- घघ्नाय सत्याय तस्मै सूर्यात्मने नमः ॥ १२० ॥ जयोऽज- यश्च विजयो जितप्राणो जितश्रमः । मनोजवो जितक्रोधो वाजिनः सप्त कीर्तिताः ॥ २१ ॥ हरितहयरथं दिवाकरं कनकमयांबुजरेणुपिंजरम् । प्रतिदिनमुदये नवं नवं शर णमुपैमि हिरण्यरेतसम् ॥ २२ ॥ न तं व्यालाः प्रबाधंते न व्याधिभ्यो भयं भवेत् । न नागेभ्यो भयं चैव न च भूतभयं क्वचित् ॥२३॥ अग्निशत्रुभयं नास्ति पार्थिवेभ्यस्त- थैव च । दुर्गतिं तरते घोरां प्रजां च लभते पशुन् ॥ २४ ॥ सिद्धिकामो लभेत्सिद्धिं कन्याकामस्तु कन्यकाम् । एत-