पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यस्तोत्राणि । आदित्यं पश्यते भक्त्या मां पश्यति ध्रुवं नरः | ना- दित्यं पश्यते भक्तया न स पश्यति मां नरः ॥ ३७ ॥ त्रिगुणं च त्रितत्वं च त्रयो देवास्योऽनयः । त्रयाणां च त्रिमूर्तिस्त्वं तुरीयस्त्वं नमोस्तु ते ॥ ३८ ॥ नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाश हेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने ॥ ३९ ॥ यस्योदयेनेह जगत्प्रबुध्यते प्रवर्तते चाखिलकर्मसिद्धये । ब्रह्मद्र नारायणरुद्रवंदितः स नः सदा यच्छतु मंगलं रविः ॥ १४० ॥ नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वि- तसंभवात्मने। सहस्रया गोद्भव भावभागिने सहस्रसंख्या- युगधारिणे नमः ॥ ४१ || यन्मंडलं दीप्तिकरं विशालं रत्तप्रभं तीव्रमनादिरूपम् | दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४२ ॥ यन्मंडलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् । तं देवदेवं प्रणमामि सूर्य पुनातु ॥४३॥ यन्मंडलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् । समस्ततेजोमय दिव्यरूपं पुनातु मां तत्सवि० ॥ ४४ ॥ यन्मंडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् । यत्सर्वपापक्षयकारणं च पुनातु मां त० ॥४५॥ यमंडलं व्याधिविनाशदक्षं यह ग्यजुःसामसु संप्रगीतम् | प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां त० ॥४६॥ यन्मंडलं वेदविदो वदंति गायंति यच्चारणसिद्धसंघाः । यद्योगिनो योगजुषांच संघाः पुनातु