पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे मां त० ॥ ४७ ॥ यन्मंडलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके । यत्कालकालादिमनादिरूपं पुनातु मां त० ॥ ४८ ॥ यन्मंडलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं जनानाम् । यत्कालकल्पक्षयकारणं च पुनातु मां त० ॥ ४९ ॥ यन्मंडलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रल- यप्रगल्भम् । यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां त० ॥ १५० ॥ यन्मंडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् । सूक्ष्मांतरैर्योगपथानुगम्यं पुनातु मां त० ॥५१॥ यन्मंडलं ब्रह्मविदो वदंति गायंति यच्चारणसिद्ध- संघाः । यन्मंडलं वेदविदः स्मरंति पुनातु मां त० ॥५२॥ यन्मंडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् । तत्सर्ववेदं प्रणमामि सूर्य पुनातु मां त० ॥५३॥ मंडला- टमिदं पुण्यं यः पठेत्सततं नरः । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ ५४ ॥ ध्येयः सदा सवितृमंडलम- ध्यवर्ती नारायणः सरसिजासनसंनिविष्टः । केयूरवान्म- करकुंडलवान् किरीटी हारी हिरण्मयवपुर्घृत शंखचक्रः ॥५५॥ सशंखचक्रं रविमंडले स्थितं कुशेशयाक्रांतमनंत- मच्युतम् | भजामि बुद्ध्या तपनीयमूर्ति सुरोत्तमं चित्र- विभूषणोज्वलम् ॥ ५६ ॥ एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः । कीर्तयंति सुरश्रेष्ठं देवं नारायणं विभुम् ॥५७ ॥ वेदवेदांगशारीरं दिव्यदीप्तिकरं परम् । रक्षोनं रक्तवर्ण च सृष्टिसंहारकारकम् ॥ ५८ ॥ एकचक्रो रथो यस्य दिव्यः