पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यस्तोत्राणि । डरीकवनबन्धोः। मंडलमुदितं वंदे कुंडलमाखंडलाशायाः ॥ १॥ यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि । कुरुतेंजलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २ ॥ उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते महेशाय | अं- बरचूडामणये दिग्वनिताकर्णपूराय ॥ ३ ॥ जयति जना- नंदकर: करनिकरनिरस्ततिमिरसंघातः । लोकालोका- लोकः कमलारुणमंडल: सूर्यः ॥ ४ ॥ प्रतिबोधितकमल- वनः कृतघटनश्चक्रवाक मिथुनानाम् । दर्शितसमस्तभुवनः परहितनिरतो रविः सदा जयति ॥ ५ ॥ अपनयतु सकल- कलिकृतमलपटलं सुप्रत तकनकाभः | अरविंदवृंदविघट- नपटुतरकिरणोत्करः सविता ॥ ६ ॥ उदयाद्रिचारुचामर हरितहयखुरपरिहतरेणुराग । हरितहय हरितपरिकर ग गर्नाांगनदीपक नमस्ते ॥ ७ ॥ उदितवति त्वयि विकसति मुकुलीयति समस्तमस्तमितबिंबे । नान्यस्मिन्दिनकर सकलं कमलायते भुवनम् ॥ ८ ॥ जयति रविरुदयस- मये बालातपः कनकसंनिभो यस्य । कुसुमांजलिरिव जलधौ तरंति रथसप्तयः सप्त ॥९॥ आर्याः सांवपुरे सप्त आकाशात्पतिता भुवि । यस्य कंठे गृहे वापि न स लक्ष्म्या वियुज्यते ॥१०॥ आर्याः सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत् । तस्य गेहं च देहं च पद्मा सत्यं न मुंचति ॥११॥ निधिरेष दरिद्वाणां रोगिणां परमौषधम् | सिद्धिः सकल-