पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० बृहत्स्तोत्ररत्नाकरे कार्याणां गाथेयं संस्मृता रवेः ॥ १२ ॥ इति श्रीयाज्ञव- लक्यविरचितं सूर्यार्यास्तोत्रं संपूर्णम् ॥ ७२. सूर्यस्तोत्रम् | श्रीगणेशाय नमः ॥ ॐनमो भगवते आदित्यायाखिलज- गतामात्मस्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तंबप- येतानामंतर्हदयेषु बहिरपि च आकाश इव उपाधिनाऽव्य- वधीयमानो भगवानेक एव क्षणलवनिमेषावयवोपचि- तसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्राम- नुवहति ॥ १ ॥ यदुहवाव विबुधर्षभ सवितरदस्तपत्य- नुसवनमहरहराम्नायविधिनोपतिष्ठमानानामखिलदुरित- वृजिनबीजात्र भर्जनभगवतः समभिधीमहि तपनमंडलम् ॥ २ ॥ य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनइंद्रियासुगणानात्मनः स्वयमात्मांतर्यामी प्रचोद- यति ॥ ३ ॥ य एवेमं लोकमतिकरालवदनांधकारसं- शाजगरग्रहगिलितं संमृतकमिव विचेतनमवलोक्यानुकं- पया परमकारुणिकतीक्षयैवोत्थाप्याऽहरहरनुसवनं श्रेय- सि स्वधर्माख्यात्भावस्थाने प्रवर्तयत्यवनिपतिरिव असा- धूनां भयमुदीरयन्नटति ॥४॥ परित आशापालैस्तत्र तत्र कमलकोशांजलिभिरुपहृतार्हणः ॥५॥ अथ ह भगवंस्तव चरणनलिनयुगुलं त्रिभुवनगुरुभिर्वदितमहमयातयाम 1 यजुःकाम उपसरामीति ॥ ६ ॥ इति श्रीमद्भागवत- द्वादशस्कंधांतर्गत सूर्यस्तोत्रं संपूर्णम् ॥