पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि । ७३. देव्यपराधक्षमापनस्तोत्रम् | श्रीगणेशाय नमः ॥ न मंत्रं नो यंत्रं तदपि च न जाने स्तुतिमहो न चाह्वानं ध्यानं तदपि च न जाने स्तुति - कथाः । न जाने मुद्रास्ते तदपि च न जाने विलपनं परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १ ॥ विधेरज्ञानेन द्रविणविरहेणालसतया विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् । तदेतत्क्षंतव्यं जननि सकलोद्वारिणि शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥ पृथिव्यां पुत्रास्ते जननि बहवः संति सरलाः परं तेषां मध्ये त्रिर- लतरलोऽहं तव सुतः । मदीयोयं त्यागः समुचितमिदं नो तव शिवे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३ ॥ जगन्मातर्मातस्तव चरणसेवा न रचिता न वा दत्तं देवि द्रविणमपि भूयस्तव मया । तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४ ॥ परित्यक्त्वा देवान्विविधविधसेवाकुल- तया मया पंचाशीतेरधिकमपनीते तु वयसि । इदानीं चे- न्मातस्तव यदि कृपा नापि भविता निरालंबो लंबोदरज- ननि कं यामि शरणम् ॥५॥ श्वपा को जल्पाको भवति अधु- पाकोपम गिरा निरातंको रंको विहरति चिरंकोटिकनकः | 10