पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ बृहत्स्तोत्ररत्नाकरे दवीम् ॥ ७ ॥ विधात्री धर्माणां त्वमसि सकलानायज ननी त्वमर्थानां मूलं धनदनमनीयांत्रिकमले । त्वमादिः कामानां जननि कृतकंदर्पविजये सतां भक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ ८ ॥ प्रभूता भक्तिस्ते यदपि न ममा लोलमनसस्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना | पयोदः पानीयं दिशति मधुरं चातकमुखे भृशं शंके कैर्वा विधिभिरनुनीता मम मतिः ॥९॥ कृपापांगालोकं वितर तरसा साधुचरिते न ते युक्तोपेक्षा मयि शरणदीक्षामुप- गते । न चेदिष्टं दद्यादनुपदमहो कल्पलतिका विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १० ॥ महांतं विश्वासं तव चरणपंकेरुहयुगे निधायान्यन्नैवाश्रितमिह मया दैव- तमुमे । तथाऽपि त्वचेतो यदि मयि न जायेत सदयं निरालंबो लंबोदरजननि कं यामि शरणम् ॥ ११ ॥ अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं यथा रथ्यापाथः शुचि भवति गंगौघमिलितम् । तथा तत्तत्पापैर तिमलि- नमंतर्मम यदि त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ॥ १२ ॥ त्वदन्यस्मादिच्छाविषयफललाभेन नियमस्त्वमर्थाना मिच्छाधिकमपि समर्था वितरणे । इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मनस्त्वदा सक्तं नक्तंदिवमुचितमीशानि कुरु तत् ॥ १३ ॥ स्फुरन्ना- नारतस्फटिकमयभित्तिप्रतिफलत्वदाकारं चंचच्छशध-