पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे ॥२०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकरा- चार्यविरचितानंदलहरी संपूर्णा ॥ .: ७५. महालक्ष्म्यष्टकम् । श्रीगणेशाय नमः ॥ इंद्र उवाच | नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शंखचक्रगदाहस्ते महालक्ष्मि नमो- ऽस्तु ते ॥ १ ॥ नमस्ते गरुडारूढे कोलासुरभयंकरि । सर्वपापहरे देवि महालक्ष्मि० ॥२॥ सर्वज्ञे सर्ववरदे सर्व- दुष्टभयंकरि । सर्वदुःखहरे देवि महालक्ष्मि० ॥ ३ ॥ सि- द्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि । मंत्रमूर्ते सदा देवि महालक्ष्मि० ॥ ४ ॥ आद्यंतरहिते देवि आद्यशक्ति महे श्वरि । योगजे योगसंभूते महालक्ष्मि० ॥५॥ स्थूलसूक्ष्म- महारौद्रे महाशक्ति महोदरे । महापापहरे देवि महाल- क्ष्मि० ॥६॥ पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि । पर मेशि जगन्मातर्महालक्ष्मि० ॥७॥ श्वेतांबरधरे देवि ना- नालंकारभूषिते । जगत्स्थिते जगन्मातर्महालक्ष्मि० ॥८॥ महालक्ष्म्यष्टकस्तोत्रं यः पठेद्भक्तिमान्नरः । सर्वसिद्धिमवा- मोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥ एककाले पठेन्नित्यं महापापविनाशनम् । द्विकालं यः पठेन्नित्यं धनधान्यस मन्वितः ॥ १० ॥ त्रिकालं यः पठेन्नित्यं महाशत्रुविना- शनम् । महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥ इतींद्रकृतः श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः ॥ and