पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि | ७६. * श्रीकनक (लक्ष्मी ) स्तवः | श्रीमच्छङ्करभगवत्पादाचार्यविरचितः " श्रीः । अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभ- रणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला मङ्गल्य- दाऽस्तु मम मङ्गलदेवतायाः ॥ १ ॥ मुग्धा मुहुर्विदधती वदने मुरारे: प्रेमलपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागर- संभवायाः ॥ २ ॥ आमीलितार्द्धमधिगम्य मुदा मुकुन्द मानन्दमन्दमनिमेषमनङ्गतन्त्रम् | आकेकरस्थितकनीन- कपक्ष्मनेत्रं भूत्यै भवेन्मम भुजंगशयाङ्गनायाः ॥ ३ ॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावली च हरि- नीलमयी विभाति । कामप्रदा भगवतोपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥ ४ ॥ कालांबुदा- लिललितोरसि कैटभारेद्धराधरे स्फुरति या तडिदंग-

  • अयं स्तवः स्वामिना शंकरभगवत्पादेन ब्रह्मव्रतस्थेन का-

लटिनाम्नि स्वग्राम एवाकिंचन्यपरिखिन्नाया द्विजगृहिण्याः खेद- मार्जनाय निरमायीति शंकरविजयतः प्रतीयते, 'स मुनिर्मुर- जित्कुटुम्बुनीं पदचितैनवनीतकोमलैः । मधुरैरुपतस्थिवांस्तवैः ' इत्यत्र ॥ एते श्रीमन्मातुरभ्यर्थनया स्तवमेतमतनिषतेति काल- टिग्रामनिकटवर्तिनां विदुषां मतम् । तदारभ्य कर्णाकर्णिकया तथोक्तेः ॥ इति श्रीमतां सेवापरः शिवप्रसादः ॥