पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि । १७३ त्सर्व मृततुल्यं च निष्फलम् ॥ २ ॥ सर्वसंपत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी । रासेश्वर्यधिदेवी त्वं त्वत्कला: सर्वयोषितः ॥ ३ ॥ कैलासे पार्वती त्वं च क्षीरोदे सिंधु- कन्यका | स्वर्गे च महालक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ॥ ४ ॥ वैकुंठे च महालक्ष्मीदेवदेवी सरस्वती | गंगा च तुलसी त्वं च सावित्री ब्रह्मलोकतः ॥ ५ ॥ कृष्णप्राणा- धिदेवी त्वं गोलोके राधिका स्वयम् । रासे रासेश्वरी त्वं च वृंदावनवने वने ॥ ६ ॥ कृष्णप्रिया त्वं भांडीरे चंद्रा चंदनकानने । विरजा चंपकवने शतशृंगे च सुंदरी ॥७॥ पद्मावती पद्मवने मालती मालतीवने। कुंददंती कुंदवने सुशीला केतकीवने ॥ ८ ॥ कदंबमाला त्वं देवि कदंब- काननेऽपि च । राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे ॥९॥ इत्युक्त्वा देवताः सर्वा मुनयो मनवस्तथा । रुरुदुर्न- नवदना: शुष्ककंठोष्टतालुकाः ॥ १० ॥ इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् | यः पठेत्रातरुत्थाय स वै सर्व लभेडुवम् ॥ ११ ॥ अभार्यो लभते भार्थी विनीतां सुसुतां सतीम् । सुशीलां सुंदरीं रम्यामतिसुप्रियवादि- नीम् ॥ १२ ॥ पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् । अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् ॥ १३॥ परमैश्वर्ययुक्तं च विद्यावंतं यशस्विनम् | भ्रष्टराज्यो लभे- द्वाज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४ ॥ हतबंधुर्लभेद्धंधुं