पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे रमं गतः ॥४॥ तदानीं तु ततः काश पुरीं यातो महा- मुनिः । मार्केडेय इति ख्यातः सह शिष्यैर्महायशाः ॥५॥ तं दृष्ट्वास समुत्थाय प्रणिपत्य सुपूजितः । किमर्थं म्लान- वदन एतत्त्वं मां निवेदय ॥ ६ ॥ युधिष्ठिर उवाच । संकष्ट मे महत्प्राप्त सेताहग्वदनं ततः । एतन्निवारणोपायं किंचिद्रूहि मुने मम ॥ ७ ॥ मार्केडेय उवाच । आनंद- कानने देवी संकटा नाम विश्रुता । वीरेश्वरोत्तरे भागे पूर्व चन्द्रेश्वरस्य च ॥ ८ ॥ शृणु नामाष्टकं तस्याः सर्वसि- द्धिकरं नृणाम् । संकटा प्रथमं नाम द्वितीयं विजया तथा ॥ ९ ॥ तृतीयं कामदा प्रोक्तं चतुर्थी दुःखहारिणी । श र्वाणी पंचमं नाम षष्ठं कात्यायनी तथा ॥ १० ॥ सप्तमं भीमनयना सर्वरोगहराऽष्टमम् | नामाष्टकमिदं पुण्यं त्रि- संध्यं श्रद्धयान्वितः ॥ ११ ॥ यः पठेत्पाठयेद्वापि नरो मु. ध्येत संकटात् । इत्युक्त्वा तु द्विज श्रेष्ठसृषिर्वाराणसीं ययौ ॥ १२ ॥ इति तस्य वचः श्रुत्वा नारदो हर्षनिर्भरः । ततः संपूजितां देवीं वीरेश्वरसमन्विताम् ॥ १३ ॥ भुजैस्तु दशभिर्युक्तां लोचनत्रयभूषिताम् । मालाकमंडलुयुतां पद्मशंखगदायुताम् ॥१४॥ त्रिशूलडमरुधरां खड़चर्मवि भूषिताम् । वरदाभयहस्तां तां प्रणम्य विधिनंदनः ॥ १५॥ वारत्रयं गृहीत्वा तु ततो विष्णुपुरं ययौ । एतत्स्तोत्रस्य पठनं पुत्रपौत्रविवर्धनम् ॥ १६ ॥ संकष्टनाशनं चैव त्रिपु