पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे मम भवतु वारीशदुहितुः ॥ ६ ॥ प्रवालानां दीक्षा गुरु- रपि च लाक्षारुणरुचां नियंत्री बंधूकद्युतिनिकरबंधूकृ- तिपटुः । नृणामंतवतं निबिडमपहर्तुं तव किल प्रभा- तश्रीरेषा चरणरुचिवेषा विजयते ॥ ७ ॥ प्रभातप्रोन्मी- लत्कमलवनसंचारसमये शिखाः किंजल्कानां विद्धति रुजं यत्र मृदुलः । तदेतन्मातस्ते चरणमरुणलाध्यकरुणं कठोरा महाणी कथमियमिदानीं प्रविशतु ॥ ८ ॥ स्मित ज्योत्स्स्रामजद्विजमणिमयूखामृतझरैर्विषिञ्चंतीं विश्वं तव विमलमूर्ति स्मरति यः । अमंदं स्पंदते उनकमल दस्य कृतिनो विविक्तौ वैकल्पाः सततसविकल्पा नवगिरः ॥९॥ शरौ मायाबीजौ हिमकरकलाक्रांतशिरसौ विधायो- र्ध्व बिंदुं स्फुरित मिति बीजं जलधिजे । जपेद्यः स्वच्छंद स हि पुनरमंदं गजघटामदभ्राम्य भृंगै मुखरयति वेश्मानि विदुषाम् ॥ १० ॥ सरो नामं नामं त्रिजगदभिरामं तव पदं प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु । यया पातं पातं पदकमलयोः पर्वतचरो हरो हा रोषामनुन- यति शैलेंद्रतनयाम् ॥ ११ ॥ हरंतो निःशंकं हिमकर- कलानां रुचिरतां किरंतः स्वच्छंद किरणमयपीयूषनिक- रम् । विलुंपंतु प्रौढा हरिहृदयहाराः प्रियतमा ममांत:- संतापं तव चरणशोणांबुजनखाः ॥ १२ ॥ विषान्माणि- क्यानां विगलितनिमेषं निमिषताममंदं सौंदर्य तव चर-