पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवीस्तोत्राणि | णयोरंबुधिसुते । पदालंकाराणां जयति कलनिक्काणनपटु- रुद्चन्नुहामः स्तुतिवचनलीलाकलकलः ॥ १३ ॥ मणि- ज्योत्स्नाजालैर्निजतनुरुचां मांसलतया जटालं ते जंघायुग- लमघभंगाय भवतु । भ्रमन्ती यन्मध्ये दरदलितशोणां- बुजरुचां दृशां माला नीराजनमिव विधत्ते मुररिपोः ॥ १४ ॥ हरगर्व सर्वं करिपतिकराणां मृदुतया भृशं भाभिदभ कमकमयरंभावनिरुहाम् । लसजानुज्योत्स्ना- तरणिपरिण जलनिधे तवोरुद्वंद्वं नः लथयतु भवोल- ज्वरमयम् ॥ १५ ॥ कलकाणां कांचीं मणिगणजटाला- मधिवहन्वसानः कौसुंभं वसनमसनं कौस्तुभरुचाम् | मुनित्रातः प्रातः शुचिवचनजातैरतिनुतं नितंबस्ते बिंबं हसति नवमंबांबरमणेः ॥ १६ ॥ जगन्मिथ्याभूतं मम निगदतां वेदवचसामभिप्रायों नाद्यावधि हृदयमध्यावि- शदियम् । इदानीं विश्वेषां जनकमुदरं ते विमृशतो वि- संदेहं चेतोऽजनि गरुडकेतोः प्रियतमे ॥ १७ ॥ अनल्पै- र्वादींद्वैरगणितमहायुक्तिनिवर्निरस्ताविस्तारं क्वचिदक- लयंती तनुमपि । असत्ख्यातिव्याख्यादिकचतुरिमाख्या- तमहिमावलने लग्नेयं सुगतमतसिद्धांतसरणिः ॥ १८ ॥ निदानं शृंगारप्रकरमकरंदस्य कमले महानेवालंबो हरि- नयनरोलंबवरयोः । निधानं शोभानां निधनमनुतापस्य जगतो जवेनाभीति में दिशतु तव नाभीसरसिजम्