पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्वाकरे प्रकल्प्य विघ्नेश ततः परं ते संत्रोंछनं हस्तमुखे करोमि ॥ ४९ ॥ द्राक्षादिरंभाफलचूतकानि खार्जूरकार्कधुकदाडि - मानि । सुस्वादयुक्तानि मया प्रकल्प्य गृहाण दत्तानि फलानि ढुंढे ॥ ५० ॥ पुनर्जलेनैव करादिकं ते संक्षाल- यामि मनसा गणेश | सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ ५१ ॥ अष्टांगयुक्तं गणनाथ दत्तं तांबूलकं ते मनसा मया वै । गृहाण विघ्नेश्वर भावयुक्तं सदासकृत्तुंडविशोधनार्थम् ॥ ५२ ॥ ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते । मंदारकूर्पासकयुक्तवस्खै- रनर्थ्यसंछादितके प्रसीद ॥ ५३ ॥ ततस्त्वदीयावरणं परेश संपूजयामि मनसा यथावत् । नानोपचारैः परम- प्रियैस्तु त्वत्प्रीतिकामार्थमनाथबंधो ॥५४॥ गृहाण लंबो- दर दक्षिणां ते ह्यसंख्यभूतां मनसा प्रदत्ताम् । सौवर्ण- मुद्रादिकमुख्यभावां पाहि प्रभो बिश्वमिदं गणेश ॥५५॥ राजोपचारान्विविधान् गृहाण हस्त्यश्वछन्नादिकमादराद्वै । चित्तेन दत्तान् गणनाथ ढुंढे ह्यपारसंख्यान् स्थिरजंगमांस्ते ॥ ५६ ॥ दानाय नानाविधरूपकांस्ते गृहाण दत्तान्मनसा मया वै । पदार्थभूतानू स्थिरजंगमांश्च हेरंब मां तारय मोहभावात् ॥ ५७ ॥ मंदारपुष्पाणि शमीदलानि दूर्वी- कुरांस्ते मनसा ददामि। हेरंब लंबोदर दीनपाल गृहाण भक्तं कुरु मां पदे ते ॥ ५८ ॥ ततो हरिद्रामबिरं गुलालं सिंदूरकं ते परिकल्पयामि । सुवासितं वस्तु सुवासभूतै-