पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ बृहत्स्तोत्ररत्नाकरे विदधताम् ॥ ३२ ॥ कपोले ते दोलायितललितलोला- लकवृते विमुक्ताद्धम्मिल्लादभिलसति मुक्तावलिरियम् । स्वकीयानां बंदीकृतमसहमानैरिव बलान्निबध्योर्ध्वं कृष्टा तिमिरनिकुरबैर्विधुकला ॥ ३३ ॥ प्रसादो यस्यायं नमद- मितगीर्वाणमुकुटप्रसर्पज्ज्योत्स्नाभिश्चरणतलपीठार्चितवि- धिः । दृगंभोजं तत्ते गतिहसितमत्तेभगमने वने लीनै- दोनैः कथय कथमीयादिह तुलाम् ॥ ३४ ॥ दुरापा दुर्वृ तैर्दुरितदमने दारणभरा दया दीनानामुपरि दलदि- दीवरनिभा | दहंती दारिद्रुमकुलमुदारदविणदा त्व- दीया दृष्टि में जननि दुरदृष्टं दलयतु ॥ ३५ ॥ तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी सदैव श्रीनारायणगुण- गणौघप्रणयिनी । रवैदींनां लीनामनिशमवधानातिश- यिनीं ममाप्येतां वाचं जलधितनये गोचरयताम् ॥३६॥ प्रभाजालैः प्राभातिकदिनकराभापनयनं तवेदं खेदं मे विघटयतु ताटंकयुगलम् । महिना यस्यायं प्रलयसम- येऽपि ऋतुभुजां जगत्पायं पायं स्वपिति निरपायं तव पतिः ॥ ३७ ॥ निवासो मुक्तानां निबिडतरनीलांबुदनिभ- स्तवायं धम्मिल्लो विमलयतु मल्लोचनयुगम् । भृशं यस्मि- मकालागुरुबहुलसौरभ्य निवहैः पतंति श्रीभिक्षार्थिन इव मदांधा मधुलिहः॥ ३८॥ विलग्नौ ते पार्श्वद्वय परिसरे मत्त- करिणौ करोनीतैरंचन्मणिकलशमुग्धास्यगलितैः । निषि-