पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तस्तोत्राणि | किं यदि गुणविहीनोपि गुणवानविद्यायुक्तोयं त्विति वदति मायामुषितधीः ॥६॥ भवानादौ यादोनरमृगमुखश्वादि- कतनूर्विधत्ते लोकानामवनकृतिहेतोरनुयुगम् । विशुद्ध- स्त्वं लीलानरवपुरिदानीमटसि गां पवित्रीकर्तु वा परिज- ननिवासांगणतलम् ॥ ७ ॥ जगद्रक्षार्थ वा विचरसि ज गत्यात्मजनतापरित्राणायाद्यः परमपुरुषोऽगम्यचरितः । मृषालोको लोको वदति मनुजत्वं तदधुना यया श्रीकृष्णत्वं यदवब्रुवते मूढमतयः ॥ ८॥ महायोगाधीशैरविदितमहा- योगचतुरं कथं जानंति त्वां कुटिलमतयो मादृशजनाः । तथापि त्वां जाने तव पदयुगांभोजभजनान्न चेत्वत्पादा- जस्मृतिविषयवाणी कथमभूत् ॥ ९ ॥ अपारे संसारे सु- तहितकलत्रादिभरणाद्युपाधौ मनास्तत्तरणकरणोपायरहि- ताः । पतंति त्वत्पादांबुजयुगलसेवासु विमुखा नराः पापात्मानः प्रवरनरके शोकनिलये ॥१०॥ सुधासिंधौ द्वीपे कनकलतिके कल्पकवने वितानैर्मुक्ताढ्यर्नवमणिमये मंड- पवरे । अशेषैर्माणिक्यैः खचितहरिपीठेऽजकुहरे हुताशारे ध्यायेत्तव परममूर्ति निखिलदाम् ॥ ११ ॥ धराधाराधारे हुतवहपुरेधीशगणपं विधिं श्रीशेषौ वानलपवनव्योमानि हृदये | युतौ जीवात्मानावधिकमवमत्या प्रविशते विधत्ते जायात्वं परकलितवामेन वपुषा ॥१२॥ सहस्रारे नीररुहि सकलशीतांशुललिते सहंसे हंसं यः स्फुटमपि भवंतं क- -