पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तस्तोत्राणि । वा जंतोरिह परसुखप्राभयकरी सुराणामन्येषामनुशरण- मात्मैवमकरोत् ॥३३॥ जटी वल्की क्वापि क्वचिदपि सुभू- घांबरभृती क्वचिद्भूत्यालिप्तः क्वचिदपि सुगंधांकिततनुः । क्वचिद्योगी भोगी क्वचिदपि विरागी विहरसे बहुज्ञानी ज्ञातुं तव गतिमशक्ताश्च मुनयः ॥ ३४ ॥ विशुद्धं चैतन्यं वचन जडवत्वापि सकलागमज्ञोऽप्यज्ञस्याद्विहरसि कदा- चिद्वहुविधः । ऋषिभ्यस्त्वं तत्त्वं परममुपदेष्टासि विततं च- रित्रं ते वेत्तुं चतुरधिकवत्रा न चतुराः ॥३५॥ मणिर्वा मंत्रो वा विविध विमलैश्वर्यमपि वा महायोगोष्टांगाभ्यसनविहि- तो वा त्रिभुवनम् | समर्थ चैकैकं प्रभवति वशीकर्तुम- धिकं स्थितं त्वय्येवेदं तव किसुत लोकैकवशता ॥३६॥ सरस्वत्याधारस्थितमरुदतिप्रेरितपरां नृपो धारां भिवा रसकमलवासाधिपपुरी। परं तेजोरूपं सकलभुवनालो- कनिरतो भवं ते संयोगात्परमसमवेतं मुनिपतिः ॥ ३७ ॥ अपां तवं हंसं सकलभवदेवे जलरुहे तडिद्भाव हीप्तिप्रक- टदलपट्टे सुललिते । परं स्वाधिष्ठाने रुचिरतररूपं निरुपमं स्थितं ध्यायेत्त्वां यो मदनसमरूपो विजयते ॥३८॥ प रीतं त्वां विष्णो हुतवहनमायाविलसिते सरोजे नीलाभे मणिरचितपीठे मणिगृहे | महासिद्धेः कल्पद्रुमवरतले स्व- र्णनिचयात्मवर्षद्भिः सस्यात्परमतनुभूतिः स्मरति यः ॥ ३९ ॥ मरुत्ताराप्राभे कनकरुचिपद्मे श्रुतिमयं प्रभुं लोकातीतं नि- खिलनिगमावेद्यचरितम् | भजंते ये त्वां ते सुदृढतरतादा- G