पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे नकमलाबीजसहितं मनुं प्रत्येकं ते जपति सततं निश्चल- धिया । यतामेत्यैश्वर्या श्रुतसकलविद्यानिपुणतां वशित्वं ब्रह्मैक्यं स्वपिति यदि यायात्परमुनेः ॥ ५४ ॥ अविज्ञानं किंचित्तव जगति नास्ति प्रभवितुस्तदा विज्ञातोहं यदपि सकलज्ञेन भवता । अदृष्टं मन्येहं प्रतिभटमान करणे सुने दत्तात्रेय प्रकुरु मयि कारुण्यमतुलम् ॥५५॥ भवत्पा- दांभोजद्वयशुभरसास्वादचतुरं भ्रमद्भृगीशंखायितहृदय- वृत्तिं कलय माम् | अनाधाराधाराश्रितसुरतरो तावक- जने मुने कारुण्याब्धे प्रकुरु मयि संपत्प्रकटनम् ॥ ५६ ॥ वदंत्येके पार्थ तव गतिमनेकार्थहरिणीमजानंतो ज्ञेया- मनधिगत तत्वार्थमतयः । महायोगिल्लोके जडमतिकृते त्वं धृतवपुस्तदा नोचेद्भक्तस्वजनपरिरक्षा कथमहो ॥ ५७ ॥ स्मृतस्त्वच्छिष्यो वा जगति कृतवीर्यस्य तनयोर्जुनो राजा चोराद्धय महिभयं वृश्चिकभयम् । हिनस्त्याजौ शत्रूदि- तमपि भयं चेति गदितं भवेयुस्त्वच्छिष्याः किमुत हृतचोराधिकभयाः ॥५८॥ पदानां सेव्यो वा न भवसि यदा किंचन नृणां प्रियः साधूनां त्वं तव च सुहृदस्तेपि सुजनाः । मयि त्वार्ते दीने जननमरणाद्यैः कुरु दयां दया- वान्को वा मे भ्रमनिगडनिर्मोचनविधौ ॥ ५९ ॥ यथा माता पुत्रं सकलगुणहीनं च कुटिलं प्रपुष्णात्यन्नाचैरनु दिनमतीवादरहिता । तथा त्वं लोकानां मम च पितरा २०६