पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तस्तोत्राणि । २०९ श्रीकारे निखिलजगदुद्दीपकमुने ॥७३॥ कपोलौ यौष्माको स्फुटमुकुरबिंबप्रतिभटौ भृशं संघर्षित्वात्प्रतिदिनसमा- रोपितरुचौ । निजा कांतिर्नित्या कनकनिकषोत्यंत महिमा त्वदीयो नीचैव प्रचुरतरकांतिस्तव मुने ॥ ७४ ॥ मुखेंदुं दृष्ट्वा ते यदि विशति राहुप्रतिभयात् शशी वक्रं प्राप्य द्वि- गुणितकलानां निधिरभूत् । द्विजानां राजत्वं प्रकटित मते दत्तशरणीबलेनाहो स्वामिन् कथमपि च लभ्यो हि महिमा ॥ ७५ ॥ तवायं बिंबोष्ठभुबुकसहितो विद्रुमलतासमा- क्षिप्ता तिर्यग्यदि बहुपदं स्यात्फलयुगम् । ब्रजे तत्साम्यं तन्निहितमुत वा पल्लवदलं यदि स्यात्ते नारस्तुलयितु- महो संयमिपते ॥ ७६ ॥ भवद्वाणीश्रेणीं श्रवणपुटसौ- ख्यप्रकरणीं विजेतुं वाक् श्रुत्वा स्वयमुत विदित्वाहमिति भाक् | अशक्तां तेत्यंत फणिललितजिह्वाग्रमिषतः प्रविष्टा वक्रांतं सितमणिलसद्विद्रुमगृहम् ॥ ७७ ॥ तवावृत्ता रे- खात्रयविलसिताकंबरभवच्छराणामाधारः कथमभवदेतन यदि चेत् । अथेमामूदेहात्विह कविहराद्याकृतिधरां तदा नोचेद्वेदत्रितयकलितां वापि गणये ॥ ७८ ॥ महानंत श्वासीद्विषधरवरो वासुकिरसौ निबर्हतौ मर्त्याधिकभय- करत्वं गणयताम् । भुजाकारौ स्वीयौ तव तु भुजसवं विदधतां मुने भूतौ स्निग्धौ सपदि वरदो चाभयकरौ ॥ मुने गंगास्रोतोमरवरगिरिमास्थफलके and