पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तस्तोत्राणि । नार्थप्रदरसगुटित्वं च दधतो मुने गुल्फो गूढौ तव चरण- पुष्टौ प्रकटितौ । घटावृत्ति योरिव सकलको वृत्तरुचिरौ विराजेते तजोनिकरकवितायां सुवपुषा ॥ ८७ ॥ सदा- धार युष्मत्प्रपदमतिपूज्यं सुरुचिरं ध्रुवात्मानं मत्वा जित- मिति सदा कच्छपपतिः विवेशादौ भूमेर्यदि तदिद- मेकं स्मयकर त्विदानी तजातिर्मुकुलितशिराश्चाभवदहो ॥ ८८ ॥ मया दत्तं किंचिन्न यदि कलितं वासवमहं तदा रोचिर्जानं जननमपि पंकप्रकटिनम् । प्रविश्येत्यायोज्यं न चलति ह यत्तत्वदभिया पदं ते तु श्रीद सकलसमये श्रीनिलयनम् ॥ ८९ ॥ मुने ते पादानं नवममृतपादो- अवमहो श्रितः सौंदर्य तत्पशुपतिशिरोळ हिमकरः । निवृत्तं स्वस्यांक भजति भवदेकात्मपुरुषाः कथं ब्रह्मागारे परमपुरुषानांघ्रिभजना ॥९०॥ न चित्रं ते पादौ विवरत इति प्रार्थितफलं विधिं श्रीशं रक्षाकलुषविपदं दृश्य- मतुलम् । स्मरांतश्रीगंगाधरचरणशंखांबुजसुरद्रुमाश्चंच- द्भावानतजनपदानंदकलनात् ॥ ९१ ॥ त्रिखंडैः श्रीवि- द्यामनुवरभवैर्भावकरिपो विवृद्धस्ते मंत्री विषवदतियो- ज्योतिरमलम् । षडर्णाचंद्रार्कप्रकररुचि तन्मे प्रभवतां सदा ज्ञानानंदं युवतिनृमयं लोचनपदम् ॥ ९२ ॥ समुन्मी- लद्भानुप्रकररुचिवाग्बीजममलं मरुत्वद्गोपाभां मदनलि- पिमाधारकमले । हृदजे शक्तयाख्यं सितकरकराभं शि- रसिजे सरोजे त्वां ध्यायेत्सकलपुरुषार्थान् स लभते